Proofing

2026-05-10 03:33:15 by akprasad

This page has been fully proofread once and needs a second look.

1
 

 
<page>
<ignore>
श्रीरङ्गनायिकास्तोत्रम्
 
६८१</ignore>
<verse>
माणिक्यमांगलिक सूत्रितपालिकेन
 

मन्दस्मितेन <delete>म</delete><add>[व] </add>दनारुणपङ्कजेन ।

कालान्तदीर्घमणिमङ्गलसूत्रकण्ठी-
 

मम्बां विशालनयनां मनसा स्मरामि ॥ १८ ॥
 
</verse>
<trailer text="19_END">
॥ इति मन्मथेन विरचितः श्रीकल्याणस्तवराजः सम्पूर्णः ॥
 
</trailer>
<title text="20_START">
२०. ॥ अथ श्रीरङ्गनायिकास्तोत्रम् ॥
 
</title>
<verse>
ईशानां वरदां समस्तजगतां पद्मासनस्थां श्रियं

पद्मालङ्कृतपाणिपल्लवयुगां श्रीरङ्गिणः प्रेयसीम् ।

वात्सल्यादिगुणोज्ज्वलां मणिमयैर्भूषागणैर्भूषिताम्

अस्मन्मातरमब्जकान्तवदनां वन्दे जगन्मातरम् ॥ १ ॥
</verse>
<verse>
स्वस्ति श्रीर्दिश मेंमे शशाङ्कवदने कल्याणदे वत्सले

सर्वेषां किल रङ्गनाथदयिते तत्क्षान्तिसंवर्धके ।

संत्यक्ते निवहैः सतामशरणे तापत्रयीबाधिते

पापिष्ठे मयि दुर्मतौ तव कृपा कार्येत्यहं प्रार्थये ॥ २ ॥
 
</verse>
<verse>
अस्मन्मातः श्रुतीनां शिरसि विलसिते वत्सले सिन्धुकन्ये

कान्ते श्रीरङ्गराजः कुवलयनयने सर्वलोकाधिराजः ।

ईशाने लोकमातः सरसिजवदने दीप्रगात्रे सुशीले
 

पद्मे त्वं पाहि दीनं भवजलधिगतं दुर्मतिं दुर्दशं माम् ॥ ३ ॥
 
</verse>
<verse>
दुर्वृत्तं दुर्मनीषं भवजलधिगतं विष्णुभक्तापराधै-
 

र्वाग्गात्रस्वान्तजन्यैर्भरितमशरणं गर्हितं सर्वलोकैः ।
 

नित्यं मूर्ख नृशंसं मदनपरवशं मोहवश्यप्रवश्यं
 
.६८१
 

दुःखान्ब्धौ मज्जितं मां सपदि हि कमले पाहि मातः प्रसीद ॥ ४ ॥
 
</verse>
<verse>
श्रीरङ्गनाथदयितेऽखिललोकमातः
 

कार्या कृपा ह्यशरणे मयि सिन्धुकन्ये ।

वात्सल्यतस्तु कमले मम दिव्यबोधं
 

देहि त्वमेव शरणं भव दिव्यसौख्यम् ॥ ५ ॥
 
</verse>
<verse>
सौख्यं प्रदेहि सुभगे दयिते मुरारेः

श्रीरङ्गिणः खलु रमे सुलभे सुशीले ।

कान्तस्मिते शशिलसद्वदने दया ते
 

नित्यं कुरुष्व मयि मां परिपाहि पद्मे ॥ ६ ॥
 
</verse>
</page>