Proofing

2026-04-03 16:54:16 by ambuda-bot

This page has not been fully proofread.

1
 

 
श्रीरङ्गनायिकास्तोत्रम्
 
माणिक्यमांगलिक सूत्रितपालिकेन
 
मन्दस्मितेन म [व] दनारुणपङ्कजेन ।
कालान्तदीर्घमणिमङ्गलसूत्रकण्ठी-
 
मम्बां विशालनयनां मनसा स्मरामि ॥ १८ ॥
 
॥ इति मन्मथेन विरचितः श्रीकल्याणस्तवराजः सम्पूर्णः ॥
 
२०. ॥ अथ श्रीरङ्गनायिकास्तोत्रम् ॥
 
ईशानां वरदां समस्तजगतां पद्मासनस्थां श्रियं
पद्मालङ्कृतपाणिपल्लवयुगां श्रीरङ्गिणः प्रेयसीम् ।
वात्सल्यादिगुणोज्ज्वलां मणिमयैर्भूषागणैर्भूषिताम्
अस्मन्मातरमब्जकान्तवदनां वन्दे जगन्मातरम् ॥ १ ॥
स्वस्ति श्रीर्दिश में शशाङ्कवदने कल्याणदे वत्सले
सर्वेषां किल रङ्गनाथदयिते तत्क्षान्तिसंवर्धके ।
संत्यक्ते निवहैः सतामशरणे तापत्रयीबाधिते
पापिष्ठे मयि दुर्मतौ तव कृपा कार्येत्यहं प्रार्थये ॥ २ ॥
 
अस्मन्मातः श्रुतीनां शिरसि विलसिते वत्सले सिन्धुकन्ये
कान्ते श्रीरङ्गराजः कुवलयनयने सर्वलोकाधिराजः ।
ईशाने लोकमातः सरसिजवदने दीप्रगात्रे सुशीले
 
पद्मे त्वं पाहि दीनं भवजलधिगतं दुर्मतिं दुर्दशं माम् ॥ ३ ॥
 
दुर्वृत्तं दुर्मनीषं भवजलधिगतं विष्णुभक्तापराधै-
 
र्वाग्गात्रस्वान्तजन्यैर्भरितमशरणं गर्हितं सर्वलोकैः ।
 
नित्यं मूर्ख नृशंसं मदनपरवशं मोहवश्यप्रवश्यं
 
.६८१
 
दुःखान्धौ मज्जितं मां सपदि हि कमले पाहि मातः प्रसीद ॥ ४ ॥
 
श्रीरङ्गनाथदयितेऽखिललोकमातः
 
कार्या कृपा ह्यशरणे मयि सिन्धुकन्ये ।
वात्सल्यतस्तु कमले मम दिव्यबोधं
 
देहि त्वमेव शरणं भव दिव्यसौख्यम् ॥ ५ ॥
 
सौख्यं प्रदेहि सुभगे दयिते मुरारेः
श्रीरङ्गिणः खलु रमे सुलभे सुशीले ।
कान्तस्मिते शशिलसद्वदने दया ते
 
नित्यं कुरुष्व मयि मां परिपाहि पद्मे ॥ ६ ॥