Stotrarnava /726
This page has been fully proofread once and needs a second look.
<ignore>६८० देवीस्तोत्रेषु
<verse>लक्षेषु सत्स्वपि तवाक्षिविलोकनानाम्
आलोकय त्रिपुरसुन्दरि मां कथञ्चित् ।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न तु जायमानः ॥ १० ॥
<verse>ह्रीं ह्रीमिति प्रतिपदं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासे ।
मालाकिरीटमदवारणमानिनीय
तं सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥
<verse>सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानकुशलानि सरोरुहाक्षि ।
त्वल्लोचनानि दुरितौघनिवारणानि
मामेव मातरनिशं कलयन्तु मान्यम् ॥ १२ ॥
<verse>कल्पोपसंहरणकल्पितताण्डवस्य
देवस्य खण्डपरशोः परभैरवस्य ।
पाशाङ्कुशैक्षवश
सा साक्षिणी विजयते तव मूर्ति
<verse>लग्नं सदा भवतु मातरिदं त्वदीयं
तेजः परं बहुलकुङ्कुमपङ्कशोणम् ।
भास्वत्किरीटममृतांशुकलावतंसं
मध्येत्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥
<verse>ह्रींकारमेव तव नाम तदेकरूपं
किं नाम सुन्दरि सरोज
त्वत्तेजसा परिणतं विदधाति भूत-
सर्
<verse>ह्रींकारत्रयसंपुटेन महता मन्त्रेण सन्दीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो ह्येतज्जपेन्मानवः ।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीः स्थिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥
<verse>कुवलयदलनीलं
पृथुतरकुचभारं क्रान्तकान्तावलग्नम् ।
किमिह बहुभिरुक्तैः त्वत्स्वरूपं परं तत्
सकलभुवनमातः सन्ततं सन्निधत्ताम् ॥ १७ ॥
</page>