Proofing

2026-05-10 03:25:56 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<
i
 
gnore>श्रीकल्याणस्तवराजः
 
</ignore>
<verse>
एतावदेव जननि स्पृहणीयमास्ते

त्वद्वन्दनेन सलिलस्थगिते च नेत्रे ।

सान्निध्य मुद्यदरुणायतलोचनस्य
 

त्वद्विग्रहस्य सुधया परयाप्लुतस्य ॥ २ ॥
</verse>
<verse>
ईशित्वभावकलुषाः कति नाम सन्ति

ब्रह्मादयः प्रतियुगं प्रलयाभिभूताः ।

एकः स एव जननि स्थिरसिद्धिरास्ते

यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥
</verse>
<verse>
लब्ध्वा सकृत् त्रिपुरसुन्दरि तावकीनं

कारुण्यकन्दलितकान्तिभरं कटाक्षम् ।

कन्दर्पभावसुभगास्त्वयि भक्तिभाज:
 
जः
<delete>
त्वं </delete> <add>[ सं] </add>मोहयन्ति तरुणीर्भुवनत्रयस्य ॥ ४ ॥
</verse>
<verse>
ह्रींकारमेव तव नाम गृणन्ति वेदा

मातस्त्रिकोणनिलये त्रिपुरे त्रिणेत्रे

यत्सुस्पृशो यमभटाभिभवं विहाय
 

दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
 
</verse>
<verse>
हन्तुः पुरामधिगलं परिघूर्णमानः
 

क्रूरः कथं नु भविता गरलस्य वेगः ।

नाश्वासनाय यदि मातरिदं त्वद
 
र्धं
देहस्य शश्वदमृताप्लवशीतलस्य ॥ ६ ॥
 
</verse>
<verse>
सर्वज्ञतां सदसि वाक्पटुतां प्रसूते

देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।

किञ्च स्फुरन्मकुटमुज्ज्वलमातपत्रं
 

द्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥
 
</verse>
<verse>
कल्पद्रुमैरभिमतप्रतिपादनेषु
 

कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।
 

आलोकय त्रिपुरसुन्दरि मामनाथं
 

त्वय्येव भक्तिभरितं त्वयि दत्तदृष्टिम् ॥ ८ ॥
 
</verse>
<verse>
हन्तेतरेष्वपि मनांसि निधाय चान्ये
 

भक्तिं वहन्ति किल पामरदैवतेषु ।
 

त्वमेव देवि मनसाहमनुस्मरामि
 

त्वामेव नौमि शरणं जननि त्वमेव ॥ ९ ॥
 
</verse>
</page>