Stotrarnava /724
This page has not been fully proofread.
१८. ॥ अथ श्रीमीनाक्षीमणिमालाष्टकम् ॥
मधुरापुरनायिके नमस्ते मधुराला पशुकाभिरामहस्ते ।
मलयध्वजपाण्ड्यराजकन्ये मयि मीनाक्षि कृपां निधेहि धन्ये ॥ १ ॥
कचनिर्जितकालमेघकान्ते कमलासेवितपादपङ्कजान्ते ।
मधुरापुरवल्लभेष्टकान्ते मयि मीनाक्षि कृपां निवेहि दान्ते ॥ २ ॥
कुचयुग्म विभिन्नचक्रवाके कृपया पालितसर्वजीवलोके ।
मलयध्वजसन्ततेः पताके मयि मीनाक्षि कृपां निवेहि पाके ॥ ३ ॥
तपनीयसरोजिनीतटस्थे तुहिनप्रायमहीधरोदरस्थे ।
मदनारिपरिग्रहे कृतार्थे मयि मीनाक्षि कृपां निवेहि साथै ॥ ४ ॥
मधुवैरिविरिञ्चिमुख्यसेव्ये मनसा भावितचन्द्रमौलिसव्ये ।
मनसा पनिहीत यज्ञहव्ये मयि मीनाक्षि कृपां निवेहि भव्ये ॥ ५ ॥
कलकीर कलोक्तिनाददक्षे कलितानेकजगन्निवासकुक्षे ।
मदनाशु गहल्लकान्तपाणे मयि मीनाक्षि कृपां निधेहि शोणे ॥ ६ ॥
विधिवाहनचैत्रकेलियाने विमतामोटनपूजितापदाने ।
मधुरेक्षण भावपूतमीने मयि मीनाक्षि कृपां निधेहि दीने ॥ ७ ॥
जगदम्ब कदम्बमूलवासे मधुरा मोदमुखेन्दुमन्दहासे ।
मदमन्दिर चारुदृग्विलासे मयि मीनाक्षि कृपां निधेहि दासे ॥ ८ ॥
पठतामनिशं प्रभातकाले मणिमालाष्टकमष्टभूतिदायि ।
घटिकाशतचातुरी समिन्धे करुणा पूर्णकट (क्षसन्निवेशात् ॥ ९ ॥
॥ इति श्रीमीनाक्षीमणिमालाष्टकं सम्पूर्णम् ॥
१९. ॥ अथ श्री कल्याणस्तवराजः ॥
कल्याणवृष्टिभिरिवामृतपूरिताभि-
लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।
सेवाभिरम्ब तव पादसरोजमूले
नाकारि किं मनसि भक्तिमतां जनानाम् ॥ १ ॥