Stotrarnava /723
This page has not been fully proofread.
श्रीतुरीयाषोडशी श्रीराजराजेश्वरीकवचम्
स एव च गुरुः साक्षात् कवचं यस्तु पुत्रक ।
त्रिसन्ध्यं च पठेन्नित्यमिदं कवचमुत्तमम् ॥ ५९ ॥
निशार्धे जपकाले वा प्रत्यहं यन्त्रमप्रतः ।
सदा भवति तस्या पश्चाद्धावति धेनुवत् ॥ ६० ॥
जगद्वश्यं भवेच्छीघ्रं नात्र कार्या विचारणा ।
वेदी पुत्रो भवेच्छान्ते त्वं सदा मम सुत्रत (१) ॥ ६१ ॥
सप्तकोटि महामन्त्राः सवर्णाः सगुणान्विताः ।
सर्वे प्रसन्नतां यान्ति सत्यं सत्यं न संशयः ॥ ६२ ॥
इति ते कथितं दिव्यं सगुणे भजनक्रमम् ।
निर्गुणं परमं वक्ष्ये तुरीयं कवचं शृणु ॥ ६३ ॥
येन विज्ञातमात्रेण पारम्पर्यं च लभ्यते ।
यथा च विमलं तोयं तपन्तीं तारयत्यपि ॥ ६४ ॥
कवचस्यास्य माहात्म्यं वर्णितुं नैव शक्यते ।
मूलादिब्रह्मरन्धान्तं श्रीचक्रं समुदीरयेत् ॥ ६५ ॥
परिचाराच्च नः सर्वं सर्वावरणसंयुतम् ।
आदिमध्यान्तकं सर्वं पश्चमं पञ्चमं भवेत् (?) ॥ ६६ ॥
देहमध्ये च सर्वस्वं श्रीचक्रं चिन्तयेत् सुत ।
पञ्चविंशतितत्त्वं च सुतलं तलमेव च ॥ ६७ ॥
गभस्तिमानपातालं सप्तमं च रसातलम् ।
भूर्भुवः स्वर्लोकमतो महल्लोकजनस्तथा ॥ ६८ ॥
तपश्च सत्यलोकच भुवनानि चतुर्दश ।
सर्वं श्रीभुवनं चैव निराकारं विचिन्तयेत् ॥ ६९ ॥
मानसे पूजयेत् ध्यायेद्ज्योतीरूपं सुचिन्मयम् ।
कवच प्रजपेद्वत्स राजराजेश्वरो भवेत् ॥ ७० ॥
इति परमरहस्यं सर्वमन्त्रार्थसारं
भजति परमभक्त्या निश्चलं निर्मलत्वम् ।
विलसति भुवि मध्ये पुत्रपौत्राभिवृद्धिं
धनसकलसमृद्धिं भोगमोक्षप्रदं च ॥ ७१ ॥
॥ इति श्रीचूडामणौ श्रीशिवस्कन्दसर्गपादे त्रैलोक्यविजयाभेद्यं नाम
श्री तुरीया षोडशी श्री राजराजेश्वरीमहात्रिपुरसुन्दरीकवचं
सम्पूर्णम् ॥
६७७
4