Proofing

2026-05-10 03:19:43 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६७६
 
देवीस्तोत्रेषु
 
</ignore>
<verse>
क्लींकारसहिता पातु चण्डिका वायुगोचरे ।
हो

ह्रीं
कारसहिता पातु चामुण्डा चोत्तरे मम ॥ ४३ ॥
</verse>
<verse>
श्रीकारसहिता रौद्री पायादेदैशान्य के मम ।

ऊर्ध्वं ब्रह्माणि मे रक्षेत् षोडशी सह सर्वदा ॥ ४४ ॥
</verse>
<verse>
अवस्थाद्वैष्णवी रक्षेत् पुनः षोडशिसंयुता ।

सर्वाङ्गं सर्वदा पातु सहिता भुवनेश्वरी ॥ ४५ ॥
</verse>
<verse>
जले दावानलेऽरण्ये महोत्पाते च सागरे ।

दिवारात्रौ च मे रक्षेत देवी तारत्रयी मम ॥ ४६ ॥
</verse>
<verse>
इदं तुरीयासहितं पोडशाक्षरिकात्मकम् ।

अभेद्यं कवचं त्वेदं मन्त्रवीबीजसमन्वितम् ॥ ४७ ॥
</verse>
<verse>
योगिनीचक्रसहितं तव प्रीत्या प्रकाशितम् ।

धारयस्व मया दत्तं गोपनीयं सुपुत्रक ॥ ४८
॥</verse>
<verse>
न पुत्राय न शिष्याय बन्धुभ्यो न प्रकाशयेत् ।

इदं त्रिपुरसुन्दर्यास्तुरीयं कवचं शुभम् ॥ ४९ ॥
</verse>
<verse>
गोपनीयं प्रयत्नेन मन्त्रवर्णक्रमोदितम् ।
 

प्रातरारभ्य सायान्तं कर्म वेदान्तमौक्तिकम् ॥ ५० ॥
</verse>
<verse>
तत् फलं समवाप्नोति तुरीयकवचत्व्रतम् ।
 

दशधा मातृकान्यासं लघुपोषोढा ततः परम् ॥ ५१ ॥
</verse>
<verse>
शक्तिन्यासं महापोढां कृत्वा बाह्यान्तरं न्यसेत् ।

श्रीविद्यायां महान्यासं क्रमात् सावर्णतां गतम् ॥ ५२ ॥
</verse>
<verse>
पूजान्ते यत् फलं प्राप्तं तत् फलं कवचत्व्रते ।

सवत्सां दुग्धसहितां साधकः कामधेनुवत् ॥ ५३ ॥
</verse>
<verse>
त्रैलोक्यविजयायेदं कवचं परमाद्भुतम् ।
 

यथा चिन्तामणौ पुत्र मनसा परिकल्पिते ॥ ५४ ॥
</verse>
<verse>
तत् सर्वं लभते शीघ्रं मम वाक्यान्न संशयः ।

सायुरारोग्यमैश्वर्यं सदा सम्पत्प्रवर्धनम् ॥ ५५ ॥
</verse>
<verse>
कवचस्य प्रभावेण त्रैलोक्ये विजयी भवेत् ।

अदीक्षिताय नो देयं श्रद्धाविरहितात्मने ॥ ५६ ॥
</verse>
<verse>
नाख्येयं यस्य कस्यापि कृतन्घ्नायाततायिने ।

शान्ताय गुरुभेक्ताय देयं शुद्धाय साधवे ॥ ५७ ॥
</verse>
<verse>
अज्ञात्वा कवचं चेदं यो जपेत् परदेवताम् ।
 

यद्यत् पुराद्यादिशतं यथेन्दुश्च तयो रविः <add>( ? )</add> ॥ ५८ ॥
 
</verse>
</page>