Stotrarnava /722
This page has not been fully proofread.
६७६
देवीस्तोत्रेषु
क्लींकारसहिता पातु चण्डिका वायुगोचरे ।
होकारसहिता पातु चामुण्डा चोत्तरे मम ॥ ४३ ॥
श्रीकारसहिता रौद्री पायादेशान्य के मम ।
ऊर्ध्वं ब्रह्माणि मे रक्षेत् षोडशी सह सर्वदा ॥ ४४ ॥
अवस्थाद्वैष्णवी रक्षेत् पुनः षोडशिसंयुता ।
सर्वाङ्गं सर्वदा पातु सहिता भुवनेश्वरी ॥ ४५ ॥
जले दावानलेऽरण्ये महोत्पाते च सागरे ।
दिवारात्रौ च मे रक्षेत देवी तारत्रयी मम ॥ ४६ ॥
इदं तुरीयासहितं पोडशाक्षरिकात्मकम् ।
अभेद्यं कवचं त्वेदं मन्त्रवीजसमन्वितम् ॥ ४७ ॥
योगिनीचक्रसहितं तव प्रीत्या प्रकाशितम् ।
धारयस्व मया दत्तं गोपनीयं सुपुत्रक ॥ ४८ ।
न पुत्राय न शिष्याय बन्धुभ्यो न प्रकाशयेत् ।
इदं त्रिपुरसुन्दर्यास्तुरीयं कवचं शुभम् ॥ ४९ ॥
गोपनीयं प्रयत्नेन मन्त्रवर्णक्रमोदितम् ।
प्रातरारभ्य सायान्तं कर्म वेदान्तमौक्तिकम् ॥ ५० ॥
तत् फलं समवाप्नोति तुरीयकवचत्रतम् ।
दशधा मातृकान्यास लघुपोढा ततः परम् ॥ ५१ ॥
शक्तिन्यासं महापोढां कृत्वा बाह्यान्तरं न्यसेत् ।
श्रीविद्यायां महान्यासं क्रमात् सावर्णतां गतम् ॥ ५२ ॥
पूजान्ते यत् फलं प्राप्तं तत् फलं कवचत्रते ।
सवत्सां दुग्धसहितां साधकः कामधेनुवत् ॥ ५३ ॥
त्रैलोक्यविजयायेदं कवचं परमाद्भुतम् ।
यथा चिन्तामणौ पुत्र मनसा परिकल्पिते ॥ ५४ ॥
तत् सर्वं लभते शीघ्रं मम वाक्यान्न संशयः ।
सायुरारोग्यमैश्वर्यं सदा सम्पत्प्रवर्धनम् ॥ ५५ ॥
कवचस्य प्रभावेण त्रैलोक्ये विजयी भवेत् ।
अदीक्षिताय नो देयं श्रद्धाविरहितात्मने ॥ ५६ ॥
नाख्येयं यस्य कस्यापि कृतन्नायाततायिने ।
शान्ताय गुरुभेक्ताय देयं शुद्धाय साधवे ॥ ५७ ॥
अज्ञात्वा कवचं चेदं यो जपेत् परदेवताम् ।
यद्यत् पुराद्यादिशतं यथेन्दुश्च तयो रविः ( ? ) ॥ ५८ ॥