Stotrarnava /721
This page has not been fully proofread.
श्रीतुरीयाषोडशी श्रीराजराजेश्वरीकवचम्
ह्रीं श्रीं ऐं पातु सर्वत्र क्नौं रं लं ह्रीं सदा मम ।
क्लीं हसकहल ह्रीं पातु सदा सौः क्लीं मम? ॥ २८ ॥
सौ ऐं क्लीं ह्री श्रिया पातु सबीजा षोडशाक्षरी ।
आपादमस्तकं पातु महात्रिपुरसुन्दरी ॥ २९ ॥
श्रीजयन्ती मस्तके मां पातु नित्यं विभूतये ।
ह्रीं मङ्गला सदा नेत्रे पातु सर्वार्थसिद्धये ॥ ३० ॥
क्लीं कालिका कर्णयुग्मं पातु सर्वशुभावहा ।
ऐं भारती घ्राणयुग्मं पातु सर्वजयाप्तये ॥ ३१ ॥
सौः कराली मुखं पातु सर्वलोकवशातये ।
ऐं शारदा सदा वाचं पातु साहित्यसिद्धये ॥ ३२॥
ओं कपालिनि मे कर्णौ पातु सद्गानसिद्धये ।
ह्रीं दुर्गासहिता पातु स्कन्धदेशौ सदा मम ॥ ३३ ॥
श्री क्षमासहिता पातु हृदयं मम सर्वदा ।
ककारसहिता धात्री पार्श्वयुग्मं सदावतु ॥ ३४ ॥
एकारसहिता स्वाहा पातु मे जठरं सदा ।
ईकारसहिता नाभिं स्वधा मां सर्वदावतु ॥ ३५ ॥
लकारसहिता ब्राह्मी पृष्ठदेशं सदावतु ।
ह्रींकार सहमाहेशी कटिं पातु सदा मम ॥ ३६ ॥
हकार सहिता गुह्यं कौमारी पातु सर्वदा ।
सकारसहिता पातु वैष्णवी गुददेशकम् ॥ ३७ ॥
ककारयुक्ता वाराही ह्यरुयुग्मं सदावतु ।
हकारसहिता जानुयुग्मं माहेन्द्र मेऽवतु ॥ ३८ ॥
लकारयुक्ता चामुण्डा जङ्घायुग्मं सदावतु ।
ह्रींकारसहिता गुल्फयुग्मं लक्ष्मीः सदावतु ॥ ३९ ॥
सकारयुक्ता मे पादयुग्मेऽव्यात् शिवदूतिका ।
ककारसहिता प्राच्यां चण्डा रक्षतु सर्वदा ॥ ४० ॥
लकारसहिताग्नेय्यां प्रचण्डा सर्वदावतु ।
ह्रींकारसहिता पातु दक्षिणे चण्डनायिका ॥ ४१ ॥
सौःकारसहिता चण्डवेगिनी नैर्ऋतेऽवतु ।
ऐंकारसंयुता चण्डप्रकाशा पातु पश्चिमे ॥ ४२ ॥
६७५-
1