Stotrarnava /720
This page has not been fully proofread.
६७४
देवीस्तोत्रेषु
पूजान्ते तु जपात् पूर्वं कवचं समुदीरयेत् ।
अस्य श्रीकवचस्यास्य ऋषिरानन्दभैरवः ॥ १३ ॥
श्रीविद्या देवता च्छन्दो गायत्री रुचिवृत्तिकम् ।
रामा बीजं पराशक्तिर्वाग्भवं कीलकं स्मृतम् ॥ १४ ॥
मम सर्वार्थसिद्धयर्थे जपे तु विनियोगत: ।
अङ्गुष्ठाग्रे वाग्भवं च हृल्लेखा तर्जनी न्यसेत् ॥ १५ ॥
लक्ष्मीबीजं मध्यमायामङ्गिराऽनामिका तथा ।
परा बीजं कनिष्ठायां लक्ष्मीं करतले न्यसेत् ॥ १६ ॥
हृदये वाग्भवं न्यस्यात् परां शिरसि च न्यसेत् ।
लक्ष्मीबीजं शिखायां च सर्वाङ्गे वाग्भवं न्यसेत् ॥ १७ ॥
हृल्लेखं नेत्रयोर्न्यस्यात् अस्त्रं तु कमलां न्यसेत् ।
भूर्भुवःस्वेति मनुना दिग्बन्धनमथाचरेत् ॥ १८ ॥
ध्यानं तस्य प्रवक्ष्यामि धर्मकामार्थमोक्षदम् ।
न्यासध्यानादिकं सर्वं कृत्वा तु कवचं पठेत् ॥ १९॥
क्षीरसागरमन्मध्ये [ मध्यस्थे ] रत्नद्वीपे मनोहरे ।
रत्नसिंहासने दिव्ये तत्र देवीं विचिन्तयेत् ॥ २० ॥
कोटिसूर्यप्रतीकाशां चन्द्रकोटिनिभाननाम् ।
दाडिमीपुष्पसंकाशां कुंकुमोदरसन्निभाम् ॥ २१ ॥
जपाकुसुमसंकाशां त्रिणेत्रां च चतुर्भुजाम् ।
पाशाङ्कुशधरां रम्यामिक्षुचापरान्विताम् ॥ २२ ॥
कर्पूरशकलोन्मिश्रताम्बूलापूरिताननाम् ।
सर्वशृङ्गारवेषाढ्यां सर्वावयवशोभिनीम् ॥ २३ ॥
सर्वायुधसमायुक्तां प्रसन्नवदनेक्षणाम् ।
सपरीवारसावर्णा सर्वोपचारपूजिताम् ॥ २४ ॥
एवं ध्यायेत्ततो वीर कवचं सर्वकामदम् ।
आवर्तयेत् स्वदेहे तु सर्वरक्षाकरं शुभम् ॥ २५ ॥
शिखायां मे हौः [हलौ ] पातु रहौ [ सहौ ] मे चक्ररन्ध्रके ।
वामदक्षिणभागे च ह्रौ पातु मां सर्वदा ॥
[ सर्वदा ह्रौ च मां पातु वामदक्षिणभागयोः ] ॥ २६ ॥
ऐं ह्रीं श्रीं सर्वदा पातु षोडशी सुन्दरी परा ।
श्रीं ह्रीं ह्रीं सर्वदा पातु ऐं सौं ओं पातु मे सदा ॥ २७ ॥