Stotrarnava /719
This page has been fully proofread once and needs a second look.
<page>
<footnote>१७. ॥ अथ श्रीतुरीयाषोडशी श्रीराजराजेश्वरीकवचम् ॥</footnote>
<verse>कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ कुमारः शिखिवाहनः ॥ १ ॥</verse>
<verse>श्रीस्कन्द उवाच—
जनक श्रीगुरो देव पुत्रवात्सल्यवर्धन ।
कवचं षोडशाक्षर्या वद मे परमेश्वर ॥ २ ॥</verse>
<verse>श्रीईश्वर उवाच—
शृणु पुत्र महाभाग कवचं मन्त्रविग्रहम् ।
गोप्याद्गोप्यतरं गोप्यं गुह्याद्गुह्यतरं महत् ॥३॥</verse>
<verse>तव स्नेहात् प्रवक्ष्यामि नाख्यातं यस्य कस्यचित् ।
ब्रह्मेशविष्णुशक्रेभ्यो मया यत् कथितं पुरा ॥ ४॥</verse>
<verse>देवाग्रे नैव दैत्याग्रे न शौनकगुणाग्रके ।
तव भक्त्या सु कवचं गोप्यं कर्तुं न शक्यते ॥ ५ ॥</verse>
<verse>एकादशमहाविद्या सवर्णा सद्गुणान्विता ।
सर्वशक्तिप्रधाना हि कवचं मन्मुखोदितम् ॥ ६॥</verse>
<verse>गणेशश्च रविर्विष्णुः शिवशक्तिश्च भैरवः ।
पञ्चतत्त्वादिसर्वेषां वामावर्तेन तुष्यताम् ॥ ७ ॥</verse>
<verse>ऊर्ध्वाम्नायं महामन्त्रं कवचं निर्मितं मया ।
त्रैलोक्यविजयं दिव्यं तुरीयं कवचं शुभम् ॥ ८ ॥</verse>
<verse>श्रीस्कन्द उवाच—
कवचं परमं देव्याः श्रोतुमिच्छाम्यहं प्रभो ।
यत्सूचितं त्वया पूर्वं धर्मकामार्थमोक्षदम् ॥ ९ ॥</verse>
<verse>तद्विनाराधनं नास्ति जपं ध्यानादिकर्मणि ।
तस्याश्च कवचं यस्मात् तस्मात्तद्वद मे प्रभो ॥ १० ॥</verse>
<verse>श्री ईश्वर उवाच---
शृणु पुत्र महाप्राज्ञ रहस्यातिरहस्यकम् ।
तुरीयं कवचं दिव्यं सर्वमन्त्रमयं शुभम् ॥ ११ ॥</verse>
<verse>न पुत्राय न शिष्याय न भक्ताय कदाचन ।
सपुत्रशिष्यभक्ताय कवचं यत् प्रकाशयेत् <add>?</add> ॥ १२ ॥</verse>
<ignore>43</ignore>
</page>
<footnote>१७. ॥ अथ श्रीतुरीयाषोडशी