Proofing

2026-05-10 03:09:38 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<footnote>
१७. ॥ अथ श्रीतुरीयाषोडशी श्रीराजराजेश्वरीकवचम् ॥
 
</footnote>
<verse>
कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।

शङ्करं परिपप्रच्छ कुमारः शिखिवाहनः ॥ १ ॥
 
</verse>
<verse>
श्रीस्कन्द उवाच—
 

जनक श्रीगुरो देव पुत्रवात्सल्यवर्धन ।

कवचं षोडशाक्षर्या वद मे परमेश्वर ॥ २ ॥
 
</verse>
<verse>
श्रीईश्वर उवाच—
 

शृणु पुत्र महाभाग कवचं मन्त्रविग्रहम् ।

गोप्याद् गोप्यतरं गोप्यं गुह्याद्गुह्यतरं महत् ॥३॥
aa
</verse>
<verse>तव
स्नेहात् प्रवक्ष्यामि नाख्यातं यस्य कस्यचित् ।

ब्रह्मेशविष्णुशक्रेभ्यो मया यत् कथितं पुरा ॥ ४॥
</verse>
<verse>
देवाग्रे नैव दैत्याग्रे न शौनकगुणाग्रके ।

तव भक्त्या सु कवचं गोप्यं कर्तुं न शक्यते ॥ ५ ॥
</verse>
<verse>
एकादशमहाविद्या सवर्णा सद्गुणान्विता ।

सर्वशक्तिप्रधाना हि कवचं मन्मुखोदितम् ॥ ६॥
</verse>
<verse>
गणेशश्च रविर्विष्णुः शिवशक्तिश्च भैरवः ।

पञ्चतत्त्वादिसर्वेषां वामावर्तेन तुष्यताम् ॥ ७ ॥
</verse>
<verse>
ऊर्ध्वाम्नायं महामन्त्रं कवचं निर्मितं मया ।

त्रैलोक्यविजयं दिव्यं तुरीयं कवचं शुभम् ॥ ८ ॥
 
</verse>
<verse>
श्रीस्कन्द उवाच—
 

कवचं परमं देव्याः श्रोतुमिच्छाम्यहं प्रभो ।

यत्सूचितं त्वया पूर्वं धर्मकामार्थमोक्षदम् ॥ ९ ॥
</verse>
<verse>
तद्विनाराधनं नास्ति जपं ध्यानादिकर्मणि ।

तस्याश्च कवचं यस्मात् तस्मात्तद्वद मे प्रभो ॥ १० ॥
 
</verse>
<verse>
श्री ईश्वर उवाच -
 
--
शृणु पुत्र महाप्राज्ञ रहस्यातिरहस्यकम् ।
 

तुरीयं कवचं दिव्यं सर्वमन्त्रमयं शुभम् ॥ ११ ॥
 
</verse>
<verse>
न पुत्राय न शिष्याय न भक्ताय कदाचन ।

सपुत्रशिष्यभक्ताय कवचं यत् प्रकाशयेत् <add>?</add> ॥ १२ ॥
 
</verse>
<ignore>
43
 
</ignore>
</page>