Proofing

2026-04-03 16:54:14 by ambuda-bot

This page has not been fully proofread.

१७. ॥ अथ श्रीतुरीयाषोडशी श्रीराजराजेश्वरीकवचम् ॥
 
कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ कुमारः शिखिवाहनः ॥ १ ॥
 
श्रीस्कन्द उवाच—
 
जनक श्रीगुरो देव पुत्रवात्सल्यवर्धन ।
कवचं षोडशाक्षर्या वद मे परमेश्वर ॥ २ ॥
 
श्रीईश्वर उवाच—
 
शृणु पुत्र महाभाग कवचं मन्त्रविग्रहम् ।
गोप्याद् गोप्यतरं गोप्यं गुह्याद्गुह्यतरं महत् ॥३॥
aa स्नेहात् प्रवक्ष्यामि नाख्यातं यस्य कस्यचित् ।
ब्रह्मशविष्णुशक्रेभ्यो मया यत् कथितं पुरा ॥ ४॥
देवा नैव दैत्या न शौनकगुणायके ।
तव भक्त्या सु कवचं गोप्यं कर्तुं न शक्यते ॥ ५ ॥
एकादशमहाविद्या सवर्णा सद्गुणान्विता ।
सर्वशक्तिप्रधाना हि कवचं मन्मुखोदितम् ॥ ६॥
गणेशश्च रविर्विष्णुः शिवशक्तिश्च भैरवः ।
पञ्चतत्त्वादिसर्वेषां वामावर्तेन तुष्यताम् ॥ ७ ॥
ऊर्ध्वाम्नायं महामन्त्रं कवचं निर्मितं मया ।
त्रैलोक्यविजयं दिव्यं तुरीयं कवचं शुभम् ॥ ८ ॥
 
श्रीस्कन्द उवाच—
 
कवचं परमं देव्याः श्रोतुमिच्छाम्यहं प्रभो ।
यत्सूचितं त्वया पूर्वं धर्मकामार्थमोक्षदम् ॥ ९ ॥
तद्विनाराधनं नास्ति जपं ध्यानादिकर्मणि ।
तस्याश्च कवचं यस्मात् तस्मात्तद्वद मे प्रभो ॥ १० ॥
 
श्री ईश्वर उवाच -
 
शृणु पुत्र महाप्राज्ञ रहस्यातिरहस्यकम् ।
 
तुरीयं कवचं दिव्यं सर्वमन्त्रमयं शुभम् ॥ ११ ॥
 
न पुत्राय न शिष्याय न भक्ताय कदाचन ।
सपुत्रशिष्यभक्ताय कवचं यत् प्रकाशयेत् १ ॥ १२ ॥
 
43