Proofing

2026-05-10 02:22:15 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>६७२ देवीस्तोत्रेषु</ignore>
<verse>श्रीकैलासे शुकाद्यैः शिवकरवटमूले निषण्णो निषेव्यः
कृत्वोरौ वामपादं किसलयमृदुलं दक्षिणे दक्षवैरी ।
विभ्राणो दोर्भिरक्षस्रजममृतघटं पुस्तकं ज्ञानमुद्रां
भूयाद्भुक्त्यै च मुक्त्यै मम रजतनिभो दक्षिणामूर्तिशम्भुः ॥ ६ ॥</verse>
<trailer text="15_END">॥ इति श्रीपार्वतीस्तोत्रं सम्पूर्णम् ॥</trailer>
<title text="16_START"><fix>१६.</fix> ॥ अथ श्री त्रिपुराप्रातर्भंजनम् ॥</title>
<verse>प्रातः स्मरामि भजतामभयङ्करं तं
पादारविन्दमतिसुन्दरमम्बिकायाः ।
दुस्स्वप्नदोषहरणं करणं सुखानां
सुस्वप्नबोधमखिलौघनिबर्हणञ्च ॥ १ ॥</verse>
<verse>प्रातःस्मरामि सकलार्थवरप्रदानं
पादारविन्दमतिकोमलमम्बिकायाः ।
इन्द्रादिदिक्पतिविरिञ्चमुकुन्दमौलि-
रत्नांशुसूर्यकिरणानुविकासितं तत् ॥ २ ॥</verse>
<verse>प्रातः<fix> </fix>स्मरामि सुरधेनुपयोधराय-
मानं चतुष्टयकराम्बुजमम्बिकायाः ।
पुण्ड्रेक्षुचापमदनास्त्रभुजंगपाश-
रत्नाङ्कु<delete>शौकनक</delete><add>[शोज्ज्वलित]</add>कङ्कणभूषणाढ्यम् ॥ ३॥</verse>
<verse>प्रातः स्मरामि पृथिवीजलवह्निवायु-
व्योमादिरूपमखिलं च पदारविन्दम् ।
यद्रेणुमाप्य कमलासनमाधवेशाः
कुर्वन्ति विश्वहरणस्थितिसर्गकेलिम् ॥ ४ ॥</verse>
<pverse>प्रातः स्मरामि मुखपङ्कजमन्दहासं
मन्दस्मिताधरतिरस्कृतचन्द्रबिम्बम् ।
याद्दश्यकेन फणिताखिलवेदशास्त्र-
त <ellipsis>...</ellipsis> कचक्ररथमंङ्गजयोधनस्य <fix>(?)</fix> ॥ ५ ॥</pverse>
<verse>यः श्लोकपञ्चकमिदं पठति प्रभाते
धर्मादिदं परहितं कथितं हरेण ।
तस्मै ददाति पदवीमणिमादिरूपां
<delete>जप्ता</delete><add>[तृप्ता]</add>तपोभिरचलां त्रिपुरा भवानी ॥ ६ ॥</verse>
<trailer text="16_END">॥ इति श्रीत्रिपुराप्रातर्भजनं सम्पूर्णम् ॥</trailer>
</page>