Stotrarnava /716
This page has been fully proofread once and needs a second look.
<page>
<ignore>६७० देवीस्तोत्रेषु</ignore>

सूर्यानलौ तारकानायकोऽप्यन्धकारं निरस्यानिशं जङ्गमं स्थावरं चाभितः पालयन्ते
जगत्पन्नगाधीश्वरोऽप्युन्नमत्कन्धरं भूतलं सावलम्बं करोत्यम्बरे मेघपङ्क्तिर्जलैः
सिञ्चति क्ष्मातलं देवि मे सत्पथेऽत्यन्तसक्तिं कुरु त्वं हि बुद्धिप्रदा सर्वहृत्पङ्कजे
सन्निविष्टा न चेद्दुष्कृतं यत्करोम्यद्य तन्निष्कृतावेष भारस्त्वयि ॥ ४ ॥

सुललितपदपङ्कजे ते सदा यः सदा सेवते तं नराधीश्वराः प्रार्थयन्तेतरा-
मम्बुवाहोपमैर्बद्धघण्टाझणात्कारसंपूरिताशातटैर्हस्तिभिः वातवेगैर्हयैरुत्तमै-
र्हारकेयूररुक्माङ्गदैः कुण्डलैर्मण्डयन्त्यस्य गेहे सदा पद्महस्ता वसत्येतदीयानने
गद्यपद्यात्मिका भारती नृत्यति स्वैरमेणीदृशां पुष्पधन्वायते सोऽवनौ पुत्र-
पौत्रादिभिर्बन्धुवर्गैः सह क्रीडति स्वच्छकीर्त्या जगच्छादयत्यम्बिके त्वत्कृपाव-
त्कटाक्षावलीगोचरस्येह वामुत्र वा दुर्लभं किं भवेत् सर्वलोकेश्वरि त्वत्पदं
स्वल्पवागल्पताचोदितः स्तोतुमारब्धवानस्म्यथाप्यादरात् बाललीलावचो मातु-
रत्यन्तमोदं विधत्ते शिवे तन्मया बालिशेनानिशं गुम्भितं चापराधं क्षमस्वा-
खिलाण्डेश्वरि त्वं सदा पाहि मां दीनमीशप्रिये देवि तुभ्यं नमो देवि तुभ्यं नमः॥५॥

<verse text="13_END" n="6">शिवसूर्यदीक्षितगुरोर्भास्करनाम्ना तनूभुवा रचितः ।
अखिलाण्डनायिकायाः कुर्याच्चिरमेष दण्डकः प्रमदम् ॥ ६ ॥</verse>
<footnote text="14_START">१४. ॥ अथ श्रीशिवकामसुन्दर्यम्बादण्डकः ॥</footnote>

जय जय शिवकामसुन्दर्युमे, देवि, रम्याकृते, भक्तराजीहृदन्तःस्थिताज्ञान-
गाढान्धकारप्रभेदस्फुरद्बालसूर्यायमाणैर्नखैः भूपिते पादकान्त्या निरस्तारुणाभाम्बुजे,
जङ्घयाधःकृतानङ्गतूणीयुगे, कन्तुजिन्मोहदोरूद्वयीशोभिते, दिव्यकौसुम्भपट्टाम्बरा-
लङ्कृते, नैकरत्नच्छटाभासुरोद्दामकाञ्चीलतामण्डिते, नीलरोमावलीमेयमध्यानते,
कोकयुग्मोल्लसद्वक्षजातोन्नते, तारहारावलीराजिताभ्यन्तरे, पार्विकस्वच्छ-
शीतांशुबिम्बस्फुरद्वक्त्रशोभासरोमज्जदीशानहृज्जातसद्बुद्बुदौपम्यवन्नासिकामौक्ति-
कोद्भासिते, नीलकञ्जातसौन्दर्यजिल्लोचनोद्यत्कटाक्षावलीरक्षिताशेषलोके, महारत्न-
राजीलसच्चारुकोटीरभाराजिते, मञ्जुले, कामजित्स्वान्तसम्मोहकान्यङ्गकान्यम्ब-
को वा भृशं वर्णितुं शक्नुयाद्वेदवाचां सुदूराणि दिव्यानि ते सच्चरित्राणि
को वेद भूम्यामुमे ॥ १ ॥

भगवति, निजपादसेवासमायातसप्तार्णवीसन्निभोदारगम्भीरतावन्महाशैव-
गङ्गाख्यतीर्थोत्तमप्रान्तसंरूढचाम्पेयगन्धाभिरामातिबालानिलाधूतचीनांशुकोन्नद्ध-
केतुस्फुरद्गोपुरालङ्कृते, तारमङ्गापुरे तारकानायके दक्षकोपाभिभूते पुरा कृत्तिका-
रोहिणीपूर्वतत्प्रेयसीभिः स्वमाङ्गल्यसिद्ध्यै सदा सेविते, ब्रह्मणा वह्निना धर्मराजेन
रक्षोजलाधीशवातैस्तथा राजराजादिसर्वामराधीश्वरैर्नित्यमाराधिते, वेदवाग्बोधिते,
चारुकैलासनाथे हरे बद्धभावे शिवे ॥ २ ॥

</page>