Proofing

2026-05-10 02:15:29 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६७०
 
देवीस्तोत्रेषु
 
</ignore>
<p>
सूर्यानौनलौ तारकानायकोऽप्यन्धकारं निरस्यानिशं जङ्गमं स्थावरं चाभितः पालयन्ते

जगत्पन्नगाधीश्वरोऽप्युन्नमत्कन्धरं भूतलं सावलम्बं करोत्यम्बरे मेघपङ्क्तिर्जलैः

सिञ्चति क्ष्मातलं देवि मे सत्पथेऽत्यन्तसक्तिं कुरु त्वं हि बुद्धिप्रदा सर्वहृत्पङ्कजे

सन्निविष्टा न चेद्दुष्कृतं यत्करोम्यद्य तन्निष्कृतावेष भारस्त्वयि ॥ ४ ॥
 
</p>
<p>
सुललितपदपङ्कजे ते सदा यः सदा सेवते तं नराधीश्वराः प्रार्थयन्तेतरा-

मम्बुवाहोपमैर्बद्धघण्टाझणात्कारसंपूरिताशात टैर्हस्तिभिः वातवेगैर्हयैरुत्तमै-

र्हारकेयूररुक्माङ्गदैः कुण्डलैर्मण्डयन्त्यस्य गेहे सदा पद्महस्ता वसत्येतदीयानने

गद्यपद्यात्मिका भारती नृत्यति स्वैरमेणीदृशां पुष्पधन्वायते सोऽवनौ पुत्र-

पौत्रादिभिर्बन्धुवर्गैः सह क्रीडति स्वच्छकीर्त्या जगच्छादयत्यम्बिके त्वत्कृपाव-

त्कटाक्षावलीगोचरस्येह वामुत्र वा दुर्लभं किं भवेत् सर्वलोकेश्वरि त्वत्पदं

स्वल्पवागल्पताचोदितः स्तोतुमारब्धवानस्म्यथाप्यादरात् बाललीलावचो मातु-

रत्यन्तमोदं विधत्ते शिवे तन्मया बालिशेनानिशं गुम्भितं चापराधं क्षमस्वा-

खिलाण्डेश्वरि त्वं सदा पाहि मां दीनमीशप्रिये देवि तुभ्यं नमो देवि तुभ्यं नमः॥५॥
</p>
<verse text="13_END">
शिवसूर्यदीक्षितगुरोर्भास्करनाम्ना तनूभुवा रचितः ।

अखिलाण्डनायिकायाः कुर्याच्चिरमे दण्डकः प्रमदम् ॥ ६ ॥
 
</verse>
<footnote text="14_START">
१४. ॥ अथ श्रीशिवकामसुन्दर्यम्बादण्डकः ॥
 
तारहारावलीराजिताभ्यन्तरे,
 
</footnote>
<p>
जय जय शिवकामसुन्दर्युमे, देवि, रम्याकृते, भक्तराजीहृदन्तः स्थिताज्ञान-

गाढान्धकारप्रभेदस्फुरद्वाबालसूर्यायमाणैर्नखैः भूपिते पादकान्त्या निरस्तारुणाभाम्बुजे,

जङ्घयाधः कृतानङ्गतूणीयुगे, कन्तु जिन्मोहदोरूद्वयीशोभिते, दिव्यकौसुम्भपट्टाम्बरा-

लङ्कृते, नैकरत्नच्छटाभासुरोद्दामकाञ्चीलतामण्डिते, नीलरोमावलीमेयमध्यानते,

कोकयुग्मोल्लसद्वक्षजातोन्नते,
तारहारावलीराजिताभ्यन्तरे, पार्विकस्वच्छ-

शीतांशुबिम्ब स्फुरद्वक्त्रशोभासरोमज्जदीशानहृज्जातसद्बुद्बुदौपम्यवन्नासिकामौक्ति-

कोद्भासिते, नीलकञ्जातसौन्दर्यजिल्लो चनोद्यत्कटाक्षावली रक्षिताशेषलोके, महारत्न -

राजीलसच्चारुकोटीरभाराजिते, मञ्जुले, कामजित्स्वान्तसम्मोहकान्यङ्गकान्यम्ब-

को वा भृशं वर्णितुं शक्नुयाद्वेदवाचां सुदूराणि दिव्यानि ते सच्चरित्राणि

को वेद भूम्यामुमे ॥ १ ॥
 
</p>
<p>
भगवति, निजपादसेवासमायातसप्तार्णवी सन्निभोदार गम्भीरतावन्महाशैव-

गङ्गाख्यतीर्थोत्तमप्रान्तसंरूढ चाम्पेयगन्धाभिरामातिबालानिलाधूत चीनांशुकोन्नद्ध-

केतुस्फुरद्गोपुरालङ्कृते, तारमङ्गापुरे तारकानायके दक्षकोपाभिभूते पुरा कृत्तिका -

रोहिणीपूर्व तत्प्रेयसीभिः स्वमाङ्गल्यसिद्ध्यै सदा सेविते, ब्रह्मणा वह्निना धर्मराजेन

रक्षोजलाधीशवातैस्तथा राजराजादिसर्वामराधीश्वरैर्नित्यमाराधिते, वेदवाग्बोधिते,

चारुकैलासनाथे हरे बद्धभावे शिवे ॥ २ ॥
 
</p>
</page>