Proofing

2026-04-03 16:54:13 by ambuda-bot

This page has not been fully proofread.

६७०
 
देवीस्तोत्रेषु
 
सूर्यानौ तारकानायकोऽप्यन्धकारं निरस्यानिशं जङ्गमं स्थावरं चाभितः पालयन्ते
जगत्पन्नगाधीश्वरोऽप्युन्नमत्कन्धरं भूतलं सावलम्बं करोत्यम्बरे मेघपङ्क्तिर्जलैः
सिञ्चति क्ष्मातलं देवि मे सत्पथेऽत्यन्तसक्तिं कुरु त्वं हि बुद्धिप्रदा सर्वहृत्पङ्कजे
सन्निविष्टा न चेदुष्कृतं यत्करोम्यद्य तन्निष्कृतावेष भारस्त्वयि ॥ ४ ॥
 
सुललितपदपङ्कजे ते सदा यः सदा सेवते तं नराधीश्वराः प्रार्थयन्तेतरा-
मम्बुवाहोपमैर्बद्धघण्टाझणात्कारसंपूरिताशात टैर्हस्तिभिः वातवेगैर्हयैरुत्तमै-
र्हारकेयूररुक्माङ्गदैः कुण्डलैर्मण्डयन्त्यस्य गेहे सदा पद्महस्ता वसत्येतदीयानने
गद्यपद्यात्मिका भारती नृत्यति स्वैरमेणीदृशां पुष्पधन्वायते सोऽवनौ पुत्र-
पौत्रादिभिर्बन्धुवर्गैः सह क्रीडति स्वच्छकीर्त्या जगच्छादयत्यम्बिके त्वत्कृपाव-
त्कटाक्षावलीगोचरस्येह वामुत्र वा दुर्लभं किं भवेत् सर्वलोकेश्वरि त्वत्पदं
स्वल्पवागल्पताचोदितः स्तोतुमारब्धवानस्म्यथाप्यादरात् बाललीलावचो मातु-
रत्यन्तमोदं विधत्ते शिवे तन्मया बालिशेनानिशं गुम्भितं चापराधं क्षमस्वा-
खिलाण्डेश्वरि त्वं सदा पाहि मां दीनमीशप्रिये देवि तुभ्यं नमो देवि तुभ्यं नमः॥५॥
शिवसूर्यदीक्षितगुरोर्भास्करनाम्ना तनूभुवा रचितः ।
अखिलाण्डनायिकायाः कुर्याच्चिरमेप दण्डकः प्रमदम् ॥ ६ ॥
 
१४. ॥ अथ श्रीशिवकामसुन्दर्यम्बादण्डकः ॥
 
तारहारावलीराजिताभ्यन्तरे,
 
जय जय शिवकामसुन्दर्युमे, देवि, रम्याकृते, भक्तराजीहृदन्तः स्थिताज्ञान-
गाढान्धकारप्रभेदस्फुरद्वालसूर्यायमाणैर्नखैः भूपिते पादकान्त्या निरस्तारुणाभाम्बुजे,
जङ्घयाधः कृतानङ्गतूणीयुगे, कन्तु जिन्मोहदोरूद्वयीशोभिते, दिव्यकौसुम्भपट्टाम्बरा-
लङ्कृते, नैकरत्नच्छटाभासुरोद्दामकाञ्चीलतामण्डिते, नीलरोमावलीमेयमध्यानते,
कोकयुग्मोल्लसद्वक्षजातोन्नते,
पार्विकस्वच्छ-
शीतांशुबिम्ब स्फुरद्वक्त्रशोभासरोमज्जदीशानहृज्जातसद्बुद्बुदौपम्यवन्नासिकामौक्ति-
कोद्भासिते, नीलकञ्जातसौन्दर्यजिल्लो चनोद्यत्कटाक्षावली रक्षिताशेषलोके, महारत्न -
राजीलसच्चारुकोटीरभाराजिते, मञ्जुले, कामजित्स्वान्तसम्मोहकान्यङ्गकान्यम्ब-
को वा भृशं वर्णितुं शक्नुयाद्वेदवाचां सुदूराणि दिव्यानि ते सच्चरित्राणि
को वेद भूम्यामुमे ॥ १ ॥
 
भगवति, निजपादसेवासमायातसप्तार्णवी सन्निभोदार गम्भीरतावन्महाशैव-
गङ्गाख्यतीर्थोत्तमप्रान्तसंरूढ चाम्पेयगन्धाभिरामातिबालानिलाधूत चीनांशुकोन्नद्ध-
केतुस्फुरद्गोपुरालङ्कृते, तारमङ्गापुरे तारकानायके दक्षकोपाभिभूते पुरा कृत्तिका -
रोहिणीपूर्व तत्प्रेयसीभिः स्वमाङ्गल्यसिद्धयै सदा सेविते, ब्रह्मणा वह्निना धर्मराजेन
रक्षोजलाधीशवातैस्तथा राजराजादिसर्वामराधीश्वरैर्नित्यमाराधिते, वेदवाग्बोधिते,
चारुकैलासनाथे हरे बद्धभावे शिवे ॥ २ ॥