Proofing

2026-05-10 02:25:38 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>श्री अखिलाण्डनायिकादण्डक : ६६९</ignore>
<p>सिद्धवेषस्फुरद्भूतिदायीश्वरस्वान्तसन्तोषकृत्सालवर्यावृते, सन्ततं दन्तिकान्तार-
देशे कृताशे दयाशेवधौ शेवधीशेडिते, वेधसा वैदिकैरागमैर्बोधितैरर्चनासत्पथै-
रद्भुतैः पूजि<flag>ते</flag>, चारुजम्बूतरोर्मूलदेशोल्लसद्रत्नगेहान्तरालङ्क्रियाकारणे, दन्तिना
लुतया चारुसंसेविते, नीरलिङ्गाकृतौ देवदेवे हरे लोकरक्षाकृते, तत्सपर्यां
विधातुं भवानि स्वयंव्यक्तरूपोज्ज्वले, पद्मया हस्तपङ्केरुहात्तामलस्फारमुक्ता-
फलालङ्कृतच्छत्रया पद्मभूकान्तया कच्छपीनिर्गलद्दिव्यगान्धारनादानुकूलीभवद्-
गेयया निर्जराधीशवामभ्रुवा चित्तभूपङ्कजाक्ष्या च हस्ते धृतस्वर्णदण्डस्फुर-
च्चामराभ्यां सदा पार्श्वयोरुर्वशीमुख्यदिव्याङ्गनाभिश्चलत्कुन्तलोरोजभारालसाभि-
र्मुदा लास्यभेदैः पुरस्ताच्च संसेविते ॥ २ ॥</p>
<p n="3">निखिलभुवनरक्षणे, सक्षणोत्क्षिप्तकौक्षेयसत्पक्षिराजध्वजाध्यक्षिते स्वर्धुरीणाद्रि-
सर्वामराधीशकोटीरकोटीमणीकान्तिनीराजिताङ्घ्रिद्वयीपद्मकोशोदरोद्गीर्णमुक्ता-
फलस्तोमभास्वन्नखश्रेणिकाभासुरे शम्भुहृद्धीरतासन्मृगीयन्त्रणाकृन्मनोभू-
निषङ्गस्फुरज्जङ्घिके, बालरम्भातिशायीशविज्ञातसौभाग्यकोरुद्वये, देहशोभासरो-
घूर्णदम्भोभ्रमभ्रान्तिकृन्नाभिगम्भीरताभासुरे, नीलरोमावलीवल्लरीसत्फलोरोजभारा-
नमन्मध्यदेशे, दयानद्धदेहे, शुभे, कुम्भिकुम्भद्वयीधिक्कियादक्षवक्षोरुहद्वंद्वसंवर्धि-
तेशानहृन्मोदभारे, नतेष्वेकदा धर्मकामार्थमोक्षप्रदानैकदक्षैर्लसत्कल्पवल्लीसमैः
बाहुभिः पङ्कजे भीतिनोदक्षमामिष्टदां मुद्रिकां चादधाने, हरामोदधानाकृते,
सिन्धुराधीश्वरारण्यवासीश्वरेणादरात् बद्धमाङ्गल्यसूत्रस्फुरत्कम्बुजित्कन्धराराजिते,
पार्विकस्वच्छचन्द्राभिरामानने नूत्नसद्विद्रुमारक्तदन्तच्छदालङ्कृते कुन्दवृन्दोल्लसद्दन्त-
पङ्क्त्या युते,देहशोभातमालावलीसञ्चरच्चन्द्रिकामन्दहासाभिरामे मनोहारिहीराङ्कुरै-
र्निस्तुमौक्तिकैः बद्धताटङ्कभाराजितश्रोत्रयुग्मान्तरे, चारुचाम्पेयगर्वौघसर्वङ्कषोदार-
मुक्ताफलोद्भासिनासायुते, मन्दवातागतिप्रेङ्खदिन्दीवरद्वन्द्वजिल्लोचने, मारकोदण्ड-
रुग्भङ्गकृच्चिल्लिके, शर्वरीनाथखण्डाभिरामालिके, कामजित्स्वान्तवातायुषो मोहकृ-
त्केशपाशप्रभाभासुरे, मञ्जुले, देहसौन्दर्यविश्रान्तिकृद्रेखिकाबुद्धिदस्वच्छशीतांशु-
रेखायुते पद्मरागादिभी रत्नवर्यैः कनद्दिव्यकोटीरहारावलीकङ्कणैर्मञ्जुमाणिक्य-
सन्नद्धशिञ्जन्मणीकाञ्चिदामारुणस्वच्छचीनांशुकेनापि शिञ्जानमञ्जीरयुग्मेन
चालङ्कृते शोभमानाकृते ॥ ३ ॥</p>
<p n="4" merge-next="true">अकृतकवचनानि सर्वाणि योगीन्द्रसन्मानसैः साकमप्राप्य यस्मान्निवृत्तानि
तं ते परानन्दमम्ब, त्वदीहाबलाद्ये लभन्ते न ते कुत्रचित् बिभ्यति स्वच्छबुद्धीन-
मून्न स्पृशत्युग्रसंसारजं कर्मजातं, पुरा यो विधिं सृष्टवानद्भुतान् वेदराशीनमुष्मै
पुनर्दत्तवानात्मबुद्धिप्रकाशं मुमुक्षुः जनो यं सदा सेवते यश्च सूर्ये विभात्या-
नखाग्रात् पुमान् स्वर्णवर्णोज्ज्वलो यश्च पुंसां हृदाकाशगः सच्चिदानन्दरूपः
शिवस्तस्य शक्तिरत्वमस्युत्तमा तन्मयी तत्त्वमस्यम्बिके त्वद्भिया मारुतो वाति</p>
</page>