Proofing

2026-05-10 01:56:15 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्री अखिलाण्डनायिकादण्डक :
 
६६९
 
</ignore>
<p>
सिद्धवेषस्फुरद्भूतिदायीश्वरस्वान्त सन्तोषकृत्सालवर्यावृते, सन्ततं दन्तिकान्तार-

देशे कृताशे दयाशेवधौ शेवधीशेडिते, वेधसा वैदिकैरागमैर्बोधितैरर्चनासत्पथै-

रद्भुतैः पूजिने<flag>ते</flag>, चारुजम्बूतरोर्मूलदेशोल्लसद्रत्नगेहान्तर । रालङ्क्रियाकारणे, दन्तिना

लुतया चारुसंसेविते, नीरलिङ्गाकृतौ देवदेवे हरे लोकरक्षाकृते, तत्सपर्या
यां
विधातुं भवानि स्वयंव्यक्तरूपोज्ज्वले, पद्मया हस्तपङ्केरुहात्तामलस्फारमुक्ता-

फलालङ्कृतच्छत्रया पद्मभूकान्तया कच्छपीनिर्गलद्दिव्यगान्धारनादानुकूलीभवद्-

गेयया निर्जराधीशवामनुत्राभ्रुवा चित्तभूपङ्कजाक्ष्या च हस्ते धृतस्वर्णदण्डस्फुर-

च्चामराभ्यां सदा पार्श्वयोरुर्वशी मुख्य दिव्याङ्गनाभिश्चलत्कुन्तलोरोजभारालसाभि-

र्मुदा लास्यभेदैः पुरस्ताच्च संसेविते ॥ २ ॥
 
</p>
<p>
निखिलभुवनरक्षणे, सक्षणोत्क्षिप्त कौक्षेय सत्पक्षिराजध्वजाध्यक्षिते स्वर्धुरीणाद्रि-
सर्व।

सर्वा
मराधीशकोटीरकोटीमणीकान्तिनीराजिताङ्घ्रिद्वयीपद्मकोशोदरोद्गीर्णमुक्ता-

फलस्तोमभास्वन्नखश्रेणिका भासुरे शम्भुहृद्धीरतासन्मृगीयन्त्रणाकृन्मनोभू-

निषङ्गस्फुरज्जङ्घिके, बालरम्भा तिशायीशविज्ञात सौभाग्यकोरुद्वये, देहशोभासरो-

घूर्णदम्भोभ्रमभ्रान्तिकृन्नाभिगम्भीरताभासुरे, नीलरोमावलीवल्लरीसत्फलोरोजभारा-

नमन्मध्यदेशे, दयानद्धदेहे, शुभे, कुम्भिकुम्भद्वयीधिक्कियादक्षवक्षोरुहद्वंद्वसंवर्धि-

तेशानहृन्मोदभारे, नतेष्वेकदा धर्मकामार्थमोक्षप्रदानै कदक्षैर्लसत्कल्पवल्लीसमैः

बाहुभिः पङ्कजे भीतिनोदक्षमामिष्टदां मुद्रिकां चादधाने, हरामोदधानाकृते,

सिन्धुराधीश्वरारण्यवासीश्वरेणादरात् बद्धमाङ्गल्यसूत्रस्फुरत्कम्बुजित्कन्धरारा जिते,

पार्विकस्वच्छचन्द्राभिरामानने नूत्नसद्विद्रुमारक्तदन्तच्छदालङ्कृते कुन्दवृन्दोल्लसद्दन्त-

पङ्क्त्या युते,देहशोभातमालावली सञ्च रञ्रच्चन्द्रिकामन्दहासाभिरामे मनोहारिहीराङ्कुरै-

र्निस्तु मौक्तिकैः बद्धताटङ्कभाराजित श्रोत्रयुग्मान्तरे, चारुचाम्पेयगर्वौघसर्वङ्कषोदार-

मुक्ताफलोद्भासिनासायुते, मन्दवातागतिप्रेङ्खदिन्दीवरद्वन्द्वजिल्लोचने, मारकोदण्ड-

रुग्भङ्गकृच्चिल्लिफेके, शर्वरीनाथखण्डाभिरामालिके, कामजित्स्वान्तवातायुषो मोहक -
कृ-
त्केशपाशप्रभाभासुरे, मञ्जुले, देहसौन्दर्यविश्रान्तिकृदेद्रेखि काबुद्धि स्वच्छशीतांशु-

रेखायुते पद्मरागादिभी रत्नवर्यैः कनद्दिव्यकोटीरहारावलीकङ्कणैर्मञ्जुमाणिक्य-

सन्नद्धशिञ्जन्मणी काञ्चिदामारुणस्वच्छ चीनांशुकेनापि
चालङ्कृते शोभमानाकृते ॥ ३ ॥
 
शिञ्जानमञ्जीरयुग्मेन
 

चालङ्कृते शोभमानाकृते ॥ ३ ॥</p>
<p merge-next="true">
अकृतकवचनानि सर्वाणि योगीन्द्रसन्मानसैः साकमप्राप्य यस्मान्निवृत्तानि

तं ते परानन्दमम्ब, त्वदीहा बलाद्ये लभन्ते न ते कुत्रचित् बिभ्यति स्वच्छबुद्धीन-

मून्न स्पृशत्युग्रसंसारजं कर्मजातं, पुरा यो विधिधिं सृष्टवानद्भुतान् वेदराशीनमुष्मै

पुनर्दत्तवानात्मबुद्धिप्रकाशं मुमुक्षुः जनो यं सदा सेवते यश्च सूर्ये विभात्या-

नखाग्रात् पुमान् स्वर्णवर्णोज्ज्वलो यश्च पुंसां हृदाकाशग:गः सच्चिदानन्दरूपः

शिवस्तस्य शक्तिरत्वमस्युत्तमा तन्मयी तत्त्वमस्यम्बिके त्वद्भिया मारुतो वाति
 
</p>
</page>