Proofing

2026-05-10 00:58:16 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<footnote>
१२. ॥ अथ श्रीगौरीदशकम् ॥
</footnote>
<verse>
लीला<delete></delete><add>[र]</add>ब्धस्थापितलुप्ताखिललोकां

लोकातीतै<delete>र्मोनि</delete><add>[र्योगि] </add>भिरन्तः स्थिरमृग्याम् ।

बालादित्य श्रेणिसमानद्युतिपुञ्जां
 

गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥
 
</verse>
<verse>
आशापाशक्लेशविनाशं विदधानां
 

पादाम्भोजध्यानपराणां पुरुषाणाम् ।

ईशामीशार्धाङ्गशरीरामभिरामां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥
 
</verse>
<verse>
नानाकारैः शक्तिकदम्बैर्भुवनानि

व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।

कल्याणीं तां कल्पलतामान तिभाजां

गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥
 
</verse>
<verse>
चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
 

चन्द्रापीडालङ्कृत लीलालकभाराम् ।

इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
 

गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥
 
</verse>
<verse>
मूलाधारादुत्थितवक्त्रां विधिरन्धं
 
ध्रां
सौरं चान्द्रं व्याप्य विहाय ज्वलिताङ्गीम् ।

येयं सूक्ष्<delete>मां </delete><add>[मा] </add>सूक्ष्मत<delete>नुं </delete><add>[नुः ]</add> तां तनुमध्यां

गौरी मम्बाम्बुरुहाक्षीमहमीडे ॥ ५ ॥
 
</verse>
<verse>
यस्याः कुक्षौ लीनमखण्डं जगदण्डं

भूयो भूयः प्रादुरभूदक्षतमेव ।

<delete>
तस्याः </delete><add>[त्या]</add> सार्धं राजतशैले विहरन्तीं

गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥
 
</verse>
<verse>
यस्यामेतत् प्रोतमशेषं मणिमाला-
 

सूत्रे यद्वत् क्वापि च रत्नं निखिलं च ।

तामध्यात्मज्ञानपदव्या गमनीयां

गौरीमम्बामम्बुरुहाक्षीमह मीडे ॥ ७ ॥
 
</verse>
</page>