Proofing

2026-04-03 16:54:13 by ambuda-bot

This page has not been fully proofread.

१२. ॥ अथ श्रीगौरीदशकम् ॥
लीलाल[र]ब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्मोनि[यगि] भिरन्तः स्थिरमृग्याम् ।
बालादित्य श्रेणिसमानद्युतिपुञ्जां
 
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥
 
आशापाशक्लेशविनाशं विदधानां
 
पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गशरीरामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥
 
नानाकारैः शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामान तिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥
 
चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
 
चन्द्रापीडालङ्कृत लीलालकभाराम् ।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
 
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥
 
मूलाधारादुत्थितवक्त्रां विधिरन्धं
 
सौरं चान्द्रं व्याप्य विहाय ज्वलिताङ्गीम् ।
येयं सूक्ष्मां [मा] सूक्ष्मतनुं [नुः ]तां तनुमध्यां
गौरी मम्बाम्बुरुहाक्षीमहमीडे ॥ ५ ॥
 
यस्याः कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदक्षतमेव ।
तस्याः [त्या] सार्धं राजतशैले विहरन्तीं
गौरी मम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥
 
यस्यामेतत् प्रोतमशेषं मणिमाला-
 
सूत्रे यद्वत् क्वापि च रत्नं निखिलं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमह मीडे ॥ ७ ॥