Proofing

2026-05-10 02:19:13 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>६६६ देवीस्तोत्रेषु</ignore>
<verse>आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः ।
तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करीकुरुते ॥ २२ ॥</verse>
<verse>मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे
हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।
निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे
शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २३ ॥</verse>
<verse>रक्ताभामरुणांशुकाम्बरधरामानन्दपूर्णाननां
मुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणाम् ।
देवीं दिव्यरसान्नपात्रकरकामम्भोजदर्वीकरां
ध्याये शङ्करवल्लभां त्रिणयनामम्बां सदान्नप्रदाम् २४ ॥</verse>
<verse>उद्यद्भानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभे
मूले कल्पतरोः स्फुरन्मणिमये सिंहासने संस्थिताम् ।
विभ्राणां करयोः सुवर्णचपकं बीजं च शाल्युद्भवं
भक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेऽन्नपूर्णेश्वरीम् ॥ २५ ॥</verse>
<verse>वामे पायसपूर्णहेमकलशं पाणौ वहन्ती मुदा
चान्ये पाणितले सुवर्णरचितां दर्वीं च भूषोज्ज्वलाम् ।
अम्बा शुद्धदुकूलचित्रवसना कारुण्यपूर्णेक्षणा
श्यामा काचन शङ्करप्रियतमा शातोदरी दृश्यते ॥ २६ ॥</verse>
<verse>करेण चञ्चन्मणिकङ्कणेन
दर्वीं दधानां धवलान्नपूर्णाम् ।
कदावलोके करुणालवालां
काशीपुरीकल्पलतां भवानीम् ॥ २७ ॥</verse>
<verse>या माणिक्यमनोज्ञहार<delete>विभुना</delete><add>[सहिता]</add>सिन्दूरभासान्विता
तारानायकशेखरा त्रिनयना पीनस्तनोद्भासिता ।
बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डकोट्युज्ज्वला
सा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८ ॥</verse>
<verse>माणिक्यनूपुरविभूषितपादपद्मां
हस्तारविन्दकरुणारसपूर्णदर्वीम् ।
सन्ध्यारुणांशुकधरां नवचन्द्रचूडां
मन्दस्मितां गिरिसुते भवतीं भजामि ॥ २९ ॥</verse>
<trailer text="11_END">॥ इति श्री दाक्षायणीस्तोत्रं सम्पूर्णम् ॥</trailer>
</page>