Proofing

2026-05-10 01:31:32 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६६६
 
देवीस्तोत्रेषु
 
</ignore>
<verse>
आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः ।

तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करीकुरुते ॥ २२ ॥
</verse>
<verse>
मातर्फेमे मधुकैटभघ्नि महिषप्राणापहारोद्यमे
 

हे
लानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।

निःशेषीकृत रक्तबीजदनुजे नित्ये निशुम्भा पहे
 

शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २३ ॥
</verse>
<verse>
रक्ताभामरुणांशुकाम्बरधरामानन्दपूर्णाननां
 

मुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणाम् ।

देवीं दिव्यरसान्नपात्रकरकामम्भोजदर्वीकरां

ध्याये शङ्करवल्लभां त्रिणयनामम्बां सदान्नप्रदाम् २४ ॥
</verse>
<verse>
उद्यायद्भानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभे
 

मूले कल्पतरोः स्फुरन्मणिमये सिंहासने संस्थिताम् ।

विभ्राणां करयोः सुवर्णचपकं बीजं च शाल्युद्भवं

भक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेऽन्नपूर्णेश्वरीम् ॥ २५ ॥
</verse>
<verse>
वामे पायस पूर्णहेमकलशं पाणौ वहन्ती मुदा

चान्ये पाणितले सुवर्णरचितां दर्वीं च भूषोज्ज्वलाम् ।

अम्बा शुद्धदुकूल चित्रवसना कारुण्यपूर्णेक्षणा
 

श्यामा काचन शङ्करप्रियतमा शातोदरी दृश्यते ॥ २६ ॥
</verse>
<verse>
करेण चञ्चन्मणिकङ्कणेन
 
दर्वी

दर्वीं
दधानां धवलान्नपूर्णाम् ।
 

कदावलोके करुणालवालां
 

काशीपुरीकल्पलतां भवानीम् ॥ २७ ॥
 
</verse>
<verse>
या माणिक्यमनोज्ञद्दारहार<delete>विभुना </delete><add>[ सहिता ] </add>सिन्दूरभासान्विता

तारानायक शेखरा त्रिनयना पीनस्तनोद्भासिता ।

बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डको ट्युज्ज्वला
 

सा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८ ॥
</verse>
<verse>
माणिक्यनूपुरविभूषितपादपद्मां
 

हस्तारविन्दकरुणारसपूर्णदर्वीम् ।
 

सन्ध्यारुणांशुकधरां नवचन्द्रचूडां
 

मन्दस्मितां गिरिसुते भवतीं भजामि ॥ २९ ॥
 
</verse>
<trailer text="11_END">
॥ इति श्री दाक्षायणीस्तोत्रं सम्पूर्णम् ॥
 
</trailer>
</page>