Proofing

2026-04-03 16:54:13 by ambuda-bot

This page has not been fully proofread.

६६६
 
देवीस्तोत्रेषु
 
आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः ।
तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करीकुरुते ॥ २२ ॥
मातर्फे मधुकैटभनि महिषप्राणापहारोद्यमे
 
लानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि ।
निःशेषीकृत रक्तबीजदनुजे नित्ये निशुम्भा पहे
 
शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २३ ॥
रक्ताभामरुणांशुकाम्बरधरामानन्दपूर्णाननां
 
मुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणाम् ।
देवीं दिव्यरसान्नपात्रकरकामम्भोजदवकरां
ध्याये शङ्करवल्लभां त्रिणयनामम्बां सदान्नप्रदाम् २४ ॥
उद्यानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभे
 
मूले कल्पतरोः स्फुरन्मणिमये सिंहासने संस्थिताम् ।
विभ्राणां करयोः सुवर्णचपकं बीजं च शाल्युद्भवं
भक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेऽन्नपूर्णेश्वरीम् ॥ २५ ॥
वामे पायस पूर्णहेमकलशं पाणौ वहन्ती मुदा
चान्ये पाणितले सुवर्णरचितां दव च भूषोज्ज्वलाम् ।
अम्बा शुद्धदुकूल चित्रवसना कारुण्यपूर्णेक्षणा
 
श्यामा काचन शङ्करप्रियतमा शातोदरी दृश्यते ॥ २६ ॥
करेण चञ्चन्मणिकङ्कणेन
 
दर्वी दधानां धवलान्नपूर्णाम् ।
 
कदावलोके करुणालवालां
 
काशीपुरीकल्पलतां भवानीम् ॥ २७ ॥
 
या माणिक्यमनोज्ञद्दारविभुना [ सहिता ] सिन्दूरभासान्विता
तारानायक शेखर त्रिनयना पीनस्तनोद्भासिता ।
बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डको ज्ज्वला
 
सा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८ ॥
माणिक्यनूपुरविभूषितपादपद्मां
 
हस्तारविन्दकरुणारसपूर्णदर्वीम् ।
 
सन्ध्यारुणांशुकधरां नवचन्द्रचूडां
 
मन्दस्मितां गिरिसुते भवतीं भजामि ॥ २९ ॥
 
॥ इति श्री दाक्षायणीस्तोत्रं सम्पूर्णम् ॥