Stotrarnava /711
This page has not been fully proofread.
श्री दाक्षायणीस्तोत्रम्
पुरवैरिधात्रि मुरवैरिपूजिते
जलदा लिवेणि फलदायिके शिवे ।
सदयं ससंपदुदयं कुरुष्व मे
जगदम्ब शाम्भवि कदम्बवासिनि ॥ १३ ॥
विजयविभवदात्री विश्वकल्याणगात्री
मधुकर शुभवेणी मङ्गलावासवाणी ।
शतमखविधिगीता शाम्भवी लोकमाता
कलिरिपुजयघोटी कामकोटिः सहाया ॥ १४ ॥
मधुपम हितमौर्वी मल्लिका मञ्जुलोर्वी-
धरपतिवरकन्या धर्मभूतेषु धन्या ।
मणिमयघनवीणा मञ्जरीदिव्यबाणा
कलिरिपुजयघोटी कामकोटिः सहाया ॥ १५ ।
अम्ब त्वदंशोरणुरंशुमाली
तवैव मन्दस्मितबिन्दुरिन्दुः ।
यादृच्छिकं संल्लपितं त्रयी ते
पुम्भावलीला पुरुषत्र यान्ति (?) ॥ १६ ॥
दुर्वेदनानुभवनैः परिदूयमाना
निर्वेदमेति नितरां कलना मदीया ।
पर्वेन्दुसुन्दरमुखि प्रणतानुकम्पे
सर्वेश्वरि त्रिपुरसुन्दरि मे प्रसीद ॥ १७ ॥
यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ।
पाशपाणि सृणिपाणि भावये चापपाणि शरपाणि दैवतम् ॥ १८ ॥
ऐश्वर्यमष्टविधमष्ट दिगीश्वरत्व-
मष्टात्मता च फलमाश्रयिणामितीव ।
मुद्रां वहन् घनधियो वटमूलवासी
मोदं तनोतु मम मुग्धशशाङ्कचूडः ॥ १९ ॥
गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति
द्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ।
मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पाद संसेवनात्
त्वां वन्दे भवभञ्जनकरी गौरी गिरीशप्रिये ॥ २० ॥
पात वा पाताले स्थापय वा सकललोकसाम्राज्ये ।
मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ २१ ॥
६६५