Stotrarnava /710
This page has not been fully proofread.
६६४
देवीस्तोत्रेषु
किंशुकच्छदविशाललोचनीं किञ्च नागरसवल्लिसंयुताम् ।
अङ्गचम्पकसमानवर्णिनीं शङ्करप्रियसतीं नमाम्यहम् ॥ ५ ॥
आरुह्य सिंहमसिचर्मरथाङ्गशङ्ख-
शक्तित्रिशूलशरचापधरा पुरास्तात् ।
गच्छ त्वमम्ब दुरिते पथि दुष्टसत्त्वात्
संरक्षणाय सततं मम देवि दुर्गे ॥ ६ ॥
दिनकरशशिनेत्रे दिव्यते [देव्युमे] रुद्रगात्रे
घनसमुचितगात्रे कल्पवल्लीसवित्रि ।
अनवरत पवित्रे ह्यम्बिके कालरात्रे
मुनिविनुतचरित्रे मोहने शैलपुत्रि ॥ ७ ॥
जलरुहसमपाणे सत्कलाबाणतूणे
सुललित मुखवीणे सर्वविद्याप्रवीणे ।
अलघुनुतपुराणे ह्यर्थभाषाधुरीणे-
प्यलिसमुदयवेणि ग्रावजे शम्भुराज्ञि ॥ ८ ॥
विविधगुणकराली विश्वतत्त्वा वराली
शिवहृदयसमेली स्वयभवामथाली ( ? ) ।
नवमणिमयमौली नागरक्षोविभाली
धवलभसितधूलीधारिणी भद्रकाली ( ? ) ॥ ९ ॥
जननमरणहारी सर्वलोकोपकारी
जननजतविहारी चारुक्षोरुहारी (?) ।
कनकगिरिविहारी कालगर्योपहारी
घनफणधरहारी कालि कौमारि गौरि (?) ॥ १० ॥
मलहरुनिमतङ्गी मन्त्रयन्त्र प्रसङ्गी
वलयितसुभुजङ्गी वाङ्मयी मौनसङ्गी ( ? ) ।
विलयभयविहङ्गी विश्वतो रक्षपाङ्गी
कलितजयतुरङ्गी खण्डचन्द्रोत्तमाङ्गी ( ? ) ॥ ११ ॥
अम्ब त्वदाराधनतत्पराणां
मुखारविन्दे सरसं कवित्वम् ।
करारविन्दे वरकल्पवल्ली
पदारविन्दे नृपमौलिराजिः ॥ १२ ॥
देवीस्तोत्रेषु
किंशुकच्छदविशाललोचनीं किञ्च नागरसवल्लिसंयुताम् ।
अङ्गचम्पकसमानवर्णिनीं शङ्करप्रियसतीं नमाम्यहम् ॥ ५ ॥
आरुह्य सिंहमसिचर्मरथाङ्गशङ्ख-
शक्तित्रिशूलशरचापधरा पुरास्तात् ।
गच्छ त्वमम्ब दुरिते पथि दुष्टसत्त्वात्
संरक्षणाय सततं मम देवि दुर्गे ॥ ६ ॥
दिनकरशशिनेत्रे दिव्यते [देव्युमे] रुद्रगात्रे
घनसमुचितगात्रे कल्पवल्लीसवित्रि ।
अनवरत पवित्रे ह्यम्बिके कालरात्रे
मुनिविनुतचरित्रे मोहने शैलपुत्रि ॥ ७ ॥
जलरुहसमपाणे सत्कलाबाणतूणे
सुललित मुखवीणे सर्वविद्याप्रवीणे ।
अलघुनुतपुराणे ह्यर्थभाषाधुरीणे-
प्यलिसमुदयवेणि ग्रावजे शम्भुराज्ञि ॥ ८ ॥
विविधगुणकराली विश्वतत्त्वा वराली
शिवहृदयसमेली स्वयभवामथाली ( ? ) ।
नवमणिमयमौली नागरक्षोविभाली
धवलभसितधूलीधारिणी भद्रकाली ( ? ) ॥ ९ ॥
जननमरणहारी सर्वलोकोपकारी
जननजतविहारी चारुक्षोरुहारी (?) ।
कनकगिरिविहारी कालगर्योपहारी
घनफणधरहारी कालि कौमारि गौरि (?) ॥ १० ॥
मलहरुनिमतङ्गी मन्त्रयन्त्र प्रसङ्गी
वलयितसुभुजङ्गी वाङ्मयी मौनसङ्गी ( ? ) ।
विलयभयविहङ्गी विश्वतो रक्षपाङ्गी
कलितजयतुरङ्गी खण्डचन्द्रोत्तमाङ्गी ( ? ) ॥ ११ ॥
अम्ब त्वदाराधनतत्पराणां
मुखारविन्दे सरसं कवित्वम् ।
करारविन्दे वरकल्पवल्ली
पदारविन्दे नृपमौलिराजिः ॥ १२ ॥