Stotrarnava /709
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीदाक्षायणीस्तोत्रम्
६६३</ignore>
<verse>शीर्षषं ते शिरसा नमामि सततं कामाक्ष्यहं सुन्दरं
सूक्ष्मं तन्मधुपालिनीलकुटिल श्रीकुन्तलालङ्कृतम् ।
सीमन्तं सुविभज्य तत्र विपुल श्रीमन्मणीन्द्राञ्चित-
स्वर्णालङ्करणप्रभासुरुचिरं शीर्षण्यभूषायितम् ॥ २९ ॥
</verse>
<verse>कामाक्षीश्वरि कोटिसूर्यनिभसद्वज्जारादिरत्नाञ्चित-
श्रीमन्मुग्धकिरीटभृद्वितरताद्धन्यं शिरस्तावकम् ।
संपत्ति नितरां ममाम्ब मनुजाप्राप्यामिहानारतं
६६३
लोकेऽमुत्र भवाभिधं च तिमिरं लूत्वा सदालिश्रितम् ॥ ३० ॥
</verse>
<verse>कामाक्षीस्तुतिमन्वहं भुवि नराः शुद्धाश्च ये भक्तितः
शृण्वन्त्यत्र पठन्ति वा स्थिरधियः पुण्यामिमामर्थिनः ।
दीर्घायुर्धनधान्यसंपदममी विन्दन्ति वाणीं यशः
सौभाग्यं सुतपौत्रजातमधिकख्यातिं मुदं सर्वदा ॥ ३१ ॥
</verse>
<verse>कौण्डिन्यान्वयसंभूतरामचन्द्रार्यसूरिणा ।
निर्मिता भाति कामाक्षीस्तुतिरेषा सतां मता ॥ ३२ ॥
</verse>
<trailer text="10_END">॥ इति श्रीकामाक्षीस्तुतिः सम्पूर्णा ॥
</trailer>
<footnote text="11_START">११. ॥ अथ श्रीदाक्षायणीस्तोत्रम् ॥
</footnote>
<verse>गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठी
श्रीकान्ता काञ्चिदाम्ना परिवृतजघना कोकिलालापवाणी ।
कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्ता
रम्भोरुः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १ ॥
</verse>
<verse>दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृता
शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला ।
कारुण्यामृतपूर्ण वाग्विलसिता मत्तेभकुम्भस्तनी
लोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २ ॥
</verse>
<verse>मध्ये सुधाब्धि मणिमण्टपरत्नवेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविचित्रगात्रीं
देवीं भजामि दृढबुद्धतलेडजिह्वाम् <add>(?)</add> ॥ ३ ॥
</verse>
<verse>सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैः
ध्यायेदीप्सितदायिनीं त्रिनयनां सिंहाधिरूढां सिताम् ।
शङ्खं <delete>चक्रधनूंषि चारु</delete><add>[चक्रमथो धनुश्च ] </add>दधतीं <delete>बिभ्रा</delete><add>[दिव्या ] </add>युधां तर्जनीं
वामे शक्तिमसिं महेषुमितरे श्रीशक्तिशूलं भजे ॥ ४॥
</verse>
</page>
<ignore>श्रीदाक्षायणीस्तोत्रम्
<verse>शीर्
सूक्ष्मं तन्मधुपालिनीलकुटिल
सीमन्तं सुविभज्य तत्र विपुल
स्वर्णालङ्करणप्रभासुरुचिरं शीर्षण्यभूषायितम् ॥ २९ ॥
<verse>कामाक्षीश्वरि कोटिसूर्यनिभसद्वज्
श्रीमन्मुग्धकिरीटभृद्वितरताद्धन्यं शिरस्तावकम् ।
संपत्ति नितरां ममाम्ब मनुजाप्राप्यामिहानारतं
६६३
लोकेऽमुत्र भवाभिधं च तिमिरं लूत्वा सदालिश्रितम् ॥ ३० ॥
<verse>कामाक्षीस्तुतिमन्वहं भुवि नराः शुद्धाश्च ये भक्तितः
शृण्वन्त्यत्र पठन्ति वा स्थिरधियः पुण्यामिमामर्थिनः ।
दीर्घायुर्धनधान्यसंपदममी विन्दन्ति वाणीं यशः
सौभाग्यं सुतपौत्रजातमधिकख्यातिं मुदं सर्वदा ॥ ३१ ॥
<verse>कौण्डिन्यान्वयसंभूतरामचन्द्रार्यसूरिणा ।
निर्मिता भाति कामाक्षीस्तुतिरेषा सतां मता ॥ ३२ ॥
<trailer text="10_END">॥ इति श्रीकामाक्षीस्तुतिः सम्पूर्णा ॥
<footnote text="11_START">११. ॥ अथ श्रीदाक्षायणीस्तोत्रम् ॥
<verse>गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठी
श्रीकान्ता काञ्चिदाम्ना परिवृतजघना कोकिलालापवाणी ।
कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्ता
रम्भोरुः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १ ॥
<verse>दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृता
शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला ।
कारुण्यामृतपूर्ण
लोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २ ॥
<verse>मध्ये
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविचित्रगात्रीं
देवीं भजामि दृढबुद्धतलेडजिह्वाम् <add>(?)</add> ॥ ३ ॥
<verse>सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैः
ध्यायेदीप्सितदायिनीं त्रिनयनां सिंहाधिरूढां सिताम् ।
शङ्खं <delete>चक्रधनूंषि चारु</delete><add>[चक्रमथो धनुश्च