Proofing

2026-04-03 16:54:12 by ambuda-bot

This page has not been fully proofread.

श्रीदाक्षायणीस्तोत्रम्
 
शीर्ष ते शिरसा नमामि सततं कामाक्ष्यहं सुन्दरं
सूक्ष्मं तन्मधुपालिनीलकुटिल श्रीकुन्तलालङ्कृतम् ।
सीमन्तं सुविभज्य तत्र विपुल श्रीमन्मणीन्द्राचित-
स्वर्णालङ्करणप्रभासुरुचिरं शीर्षण्यभूषायितम् ॥ २९ ॥
कामाक्षीश्वरि कोटिसूर्यनिभसद्वज्जादिरत्नाचित-
 
श्रीमन्मुग्धकिरीटभृद्वितरताद्धन्यं शिरस्तावकम् ।
संपत्ति नितरां ममाम्ब मनुजाप्राप्यामिहानारतं
 
६६३
 
लोकेऽमुत्र भवाभिधं च तिमिरं लूत्वा सदालिश्रितम् ॥ ३० ॥
कामाक्षीस्तुतिमन्वहं भुवि नराः शुद्धाश्च ये भक्तितः
शृण्वन्त्यत्र पठन्ति वा स्थिरधियः पुण्यामिमामर्थिनः ।
दीर्घायुर्धनधान्यसंपदममी विन्दन्ति वाणीं यशः
 
सौभाग्यं सुतपौत्रजातमधिकख्यातिं मुदं सर्वदा ॥ ३१ ॥
कौण्डिन्यान्वयसंभूतरामचन्द्रार्यसूरिणा ।
 
निर्मिता भाति कामाक्षीस्तुतिरेषा सतां मता ॥ ३२ ॥
॥ इति श्रीकामाक्षीस्तुतिः सम्पूर्णा ॥
 
११. ॥ अथ श्रीदाक्षायणीस्तोत्रम् ॥
गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठी
 
श्रीकान्ता काचिदाम्ना परिवृतजघना कोकिलालापवाणी ।
 
कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्ता
 
रम्भोरुः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १ ॥
 
दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृता
 
शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला ।
कारुण्यामृतपूर्ण वाग्विलसिता मत्तेभकुम्भस्तनी
 
लोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २ ॥
मध्ये सुधाधि मणिमण्टपरत्नवेद्यां
 
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविचित्रगात्रीं
 
देवीं भजामि दृढबुद्धतलेडजिह्वाम् (?) ॥ ३ ॥
 
सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैः
 
ध्यायेदीप्सितदायिनीं त्रिनयनां सिंहाधिरूढां सिताम् ।
 
शङ्खं चक्रधनूंषि चारु[चक्रमथो धनुश्च ] दधतीं बिभ्रा[दिव्या ] युधां तर्जनीं
वामे शक्तिमसिं महेषुमितरे श्रीशक्तिशूलं भजे ॥ ४॥