Stotrarnava /708
This page has been fully proofread once and needs a second look.
<page>
<ignore>६६२
देवीस्तोत्रेषु
</ignore>
<verse>स्कन्धौ देवि तवापरौ सुरतरुस्कन्धाविवोज्जृम्भिता-
वस्मान्नित्यमतन्द्रितौ समवतां कामाक्षि दत्वा धनम् ।
कण्ठासक्तसमस्तभूषणरुचिव्याप्तौ स्वयं भास्वरौ
लोकाघौघसमस्तनाशनचणावृत्तम्भितावुद्युती ॥ २१ ॥
</verse>
<verse>ग्रीवा कम्बुसमानसंस्थितिर सौ कान्त्येन्द्रनीलोपमा
पायान्मामनिशं पुराणविनुते कामाक्षि भो तावकी ।
नानारत्नविभूषणैः सुरुचिरा सौवर्णकै र्मौक्तिक-
श्रेष्टोठोद्गुम्भितमालया च विमला लावण्यपाथोनिधिः ॥ २२ ॥
</verse>
<verse>देवि त्वद्वदनाम्बुजं वितनुताच्छ्रेयः परं शाश्वतं
कामाक्ष्यद्य ममाम्ब पङ्कजमिदं यत्कान्तिलाभे <add>[च्छया ]</add> ।
तोये नूनमहर्निशं च विमले मङ्क्त्वा तपस्यत्यलं
तत्सौन्दर्यनिधानमग्रथ र्यसुषमं कान्तालका लङ्कृतम् ॥ २३ ॥
</verse>
<verse>नेत्रे ते करुणाकटाक्ष विशिखैः कामादिनित्यद्विषो
बाह्यामप्यरिसंहतिं मम पराकृत्यावतां नित्यशः ।
हे कामाक्षि विशालतामुपगते ह्याकर्णमिष्टावहे
सातत्येन फलार्थिनां निजगतेः संफुल्लकं जायते ॥ २४ ॥
</verse>
<verse>भ्रूयुग्मं तव देवि चापलतिकाहङ्कार निर्वापणं
कान्तं मुग्धविकासचेष्टितमहाभाग्यादिसंसूचकम् ।
कामाक्ष्यन्वहमेधतां कृतपरिस्पन्दं रिपूद्वासने
दीना निङ्गितचेष्टितैरवदिदं सुव्यक्तरूपं परम् ॥ २५ ॥
</verse>
<verse>नानासून वितान सौरभ परिया ग्राहै कलोलालयः
किं मां प्रत्यभियन्ति नेति कुपितं तप्त्वा तपो दुष्करम् ।
नासीभूय तवातिसौरभवहं भूत्वाभितः प्रेक्षण-
।
व्याजेन प्रियकप्रसूनमलिभिः कामाक्षि भात्याश्रितम् ॥ २६ ॥
</verse>
<verse>वक्त्रं पातु तवातिसुन्दरमिदं कामाक्षि नः सर्वदा
श्रीमत्कुन्दसुकुडड्मलाग्रदशन श्रेणीप्रभाशोभितम् ।
पुष्यद्विबिम्बफलारुणाधरपुढंटं सद्वीटिकारञ्जितं
सौभाग्यातिशयाभिधायिहसितश्रीशोभिताशागणम् ॥ २७ ॥
</verse>
<verse>सन्तोषं श्रुतिशष्कुलीयुगमिदं सद्रत्नशोभास्फुर-
त्ताटङ्काव्ढ्ययुगेन भाखररुचा संभूषितं तावकम् ।
कामाक्ष्यद्य चरीकरीतु विमलज्योतिर्ममानारतं
स्वाभ्याशस्थितगण्डभागफलकं संराजयज्ज्योतिषा ॥ २८ ॥
</verse>
</page>
<ignore>६६२
<verse>स्कन्धौ देवि तवापरौ सुरतरुस्कन्धाविवोज्जृम्भिता-
वस्मान्नित्यमतन्द्रितौ समवतां कामाक्षि दत्वा धनम् ।
कण्ठासक्तसमस्तभूषणरुचिव्याप्तौ स्वयं भास्वरौ
लोकाघौघसमस्तनाशनचणावृत्तम्भितावुद्युती ॥ २१ ॥
<verse>ग्रीवा कम्बुसमानसंस्थितिर
पायान्मामनिशं पुराणविनुते कामाक्षि भो तावकी ।
नानारत्नविभूषणैः सुरुचिरा सौवर्णकै
श्रेष्
<verse>देवि त्वद्वदनाम्बुजं वितनुताच्छ्रेयः परं शाश्वतं
कामाक्ष्यद्य ममाम्ब पङ्कजमिदं यत्कान्तिलाभे
तोये नूनमहर्निशं च विमले मङ्क्त्वा तपस्यत्यलं
तत्सौन्दर्यनिधानमग्
<verse>नेत्रे ते करुणाकटाक्ष
बाह्यामप्यरिसंहतिं मम पराकृत्यावतां नित्यशः ।
हे कामाक्षि विशालतामुपगते ह्याकर्णमिष्टावहे
सातत्येन फलार्थिनां निजगतेः संफुल्लकं जायते ॥ २४ ॥
<verse>भ्रूयुग्मं तव देवि चापलतिकाहङ्कार
कान्तं मुग्धविकासचेष्टितमहाभाग्यादिसंसूचकम् ।
कामाक्ष्यन्वहमेधतां कृतपरिस्पन्दं रिपूद्वासने
दीना
<verse>नानासून
किं मां प्रत्यभियन्ति नेति कुपितं तप्त्वा तपो दुष्करम् ।
नासीभूय तवातिसौरभवहं भूत्वाभितः प्रेक्षण-
।
व्याजेन प्रियकप्रसूनमलिभिः कामाक्षि भात्याश्रितम् ॥ २६ ॥
<verse>वक्त्रं पातु तवातिसुन्दरमिदं कामाक्षि नः सर्वदा
श्रीमत्कुन्दसुकु
पुष्यद्
सौभाग्यातिशयाभिधायिहसितश्रीशोभिताशागणम् ॥ २७ ॥
<verse>सन्तोषं श्रुतिशष्कुलीयुगमिदं सद्रत्नशोभास्फुर-
त्ताटङ्का