Stotrarnava /708
This page has not been fully proofread.
६६२
देवीस्तोत्रेषु
स्कन्धौ देवि तवापरौ सुरतरुस्कन्धाविवोज्जृम्भिता-
वस्मान्नित्यमतन्द्रितौ समवतां कामाक्षि दत्वा धनम् ।
कण्ठासक्तसमस्तभूषणरुचिव्याप्तौ स्वयं भास्वरौ
लोकाघौघसमस्तनाशनचणावृत्तम्भितावुद्युती ॥ २१ ॥
ग्रीवा कम्बुसमानसंस्थितिर सौ कान्त्येन्द्रनीलोपमा
पायान्मामनिशं पुराणविनुते कामाक्षि भो तावकी ।
नानारत्नविभूषणैः सुरुचिरा सौवर्णकै मौक्तिक-
श्रेष्टोद्गुम्भितमालया च विमला लावण्यपाथोनिधिः ॥ २२ ॥
देवि त्वद्वदनाम्बुजं वितनुताच्छ्रेयः परं शाश्वतं
कामाक्ष्यद्य ममाम्ब पङ्कजमिदं यत्कान्तिलाभे [च्छया ] ।
तोये नूनमहर्निशं च विमले मङ्क्त्वा तपस्यत्यलं
तत्सौन्दर्यनिधानमग्रथ सुषमं कान्तालका लङ्कृतम् ॥ २३ ॥
नेत्रे ते करुणाकटाक्ष विशिखैः कामादिनित्यद्विषो
बाह्यामप्यरिसंहतिं मम पराकृत्यावतां नित्यशः ।
हे कामाक्षि विशालतामुपगते ह्याकर्णमिष्टावहे
सातत्येन फलार्थिनां निजगतेः संफुलकं जायते ॥ २४ ॥
युग्मं तव देवि चापलतिकाहङ्कार निर्वापणं
कान्तं मुग्धविकासचेष्टितमहाभाग्यादिसंसूचकम् ।
कामाक्ष्यन्वहमेधतां कृतपरिस्पन्दं रिपूद्वासने
दीना निङ्गितचेष्टितैरवदिदं सुव्यक्तरूपं परम् ॥ २५ ॥
नानासून वितान सौरभ परिया है कलोलालयः
किं मां प्रत्यभियन्ति नेति कुपितं तप्त्वा तपो दुष्करम् ।
नासीभूय तवातिसौरभवहं भूत्वाभितः प्रेक्षण-
।
व्याजेन प्रियकप्रसूनमलिभिः कामाक्षि भात्याश्रितम् ॥ २६ ॥
वक्त्रं पातु तवातिसुन्दरमिदं कामाक्षि नः सर्वदा
श्रीमत्कुन्दसुकुडमलाग्रदशन श्रेणीप्रभाशोभितम् ।
पुष्यद्विम्बफलारुणाधरपुढं सद्वीटिकारञ्जितं
सौभाग्यातिशयाभिधायिहसितश्रीशोभिताशागणम् ॥ २७ ॥
सन्तोषं श्रुतिशष्कुलीयुगमिदं सद्रत्नशोभास्फुर-
ताटङ्काव्ययुगेन भाखररुचा संभूषितं तावकम् ।
कामाक्ष्यद्य चरीकरीतु विमलज्योतिर्ममानारतं
स्वाभ्याशस्थितगण्डभागफलकं संराजयज्ज्योतिषा ॥ २८ ॥