Proofing

2026-05-10 01:41:11 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीकामाक्षीस्तुतिः
 
६६१</ignore>
<verse>
कामाक्ष्यद्य सुरक्षतात् कटितटी तावक्यतीवोज्ज्वल-
 

द्रत्नालङ्कृतहाट काढ्य रशना सम्बद्धघण्टारवा ।

तत्रत्येन्दुमणीन्द्रनीलगरुडप्रख्योपलज्योतिषा
 

व्याप्ता वासवकार्मुकद्युतिखनीवाभाति या सर्वदा ॥ १३ ॥
</verse>
<verse>
वस्तिः स्वस्तिगता तवातिरुचिरा कामाक्षि भो देवते

सन्तोषं विदधातु सन्ततमसौ पीताम्बर। रावेष्टिता ।

तत्रापि स्वया श्रिया तत इतः प्रद्योतयन्ती दिश:
शः
कान्तेन्द्रोपलकान्तिपुञ्जकणिकेवाभाति या सौष्ठवात् ॥ १४ ॥
 
</verse>
<verse>
यन्नाभीसरसी भवाभिधमरुक्षोणीनिविष्टोद्भव-

त्
तृष्णार्ताखिलदेहिनामनुकलं सुज्ञानतोयं वरम् ।

दत्वा देवि सुगन्धि सद्गुणसदासेव्यं प्रणुद्य श्रमं

सन्तोषाय च वोबोभवीतु महिते कामाक्षि भो देवते ॥ १५ ॥
</verse>
<verse>
यन्मध्यं तव देवि सूक्ष्ममतुलं लावण्यमूलं नभः-

प्रख्यं दुष्टनिरीक्षणप्रसरणश्रान्त्यापनुत्त्या इव ।

जातं लोचनदूरगं तदवतात् कामाक्षि सिंहान्तर-

स्वैराटोपनिरासकारि विमलज्योतिर्मयं प्रत्यहम् ॥ १६ ॥
</verse>
<verse>
धृत्यै ते कुचयोर्वलित्रयमिषात् सौवर्णदामत्रयी-

बद्धं मध्यमनुत्तमं सुदृढयोर्गुर्वीवोर्ययोर्देवते ।

सौवर्णौ कलशाविवाद्य च पयः पूरीकृतौ सत्कृतौ
 

तौ कामाक्षि मुदं सदा वितनुतां भारं पराकृत्य नः ॥ १७ ॥
</verse>
<verse>
पाणी ते शरणागताभिलषितश्रेयःप्रदानोद्यतौ
 

सौभाग्याधिकशंसिशास्त्र विहरदेद्रेखङ्कितौ शौभनौ ।

स्वर्लोकद्रुमपञ्चकं वितरणे तत्तत्तृषां तस्य त-
 

त्पात्रालाभविशङ्कयाङ्गुलिमिषान्मन्ये विभात्यत्र हि ॥ १८ ॥
</verse>
<verse>
दत्तां देवि करौ तवातिमृदुलौ कामाक्षि संपत्करौ

सद्रत्नञ्चितकङ्कणादिभिरलं सौवर्णकैर्भूषितौ ।

नित्यं संपदमत्र मे भवभयप्रध्वंसनैकोत्सुकौ
 

संरक्तौ च रसालपल्लवतिरस्कारं गतौ सुन्दरौ ॥ १९ ॥
 
</verse>
<verse>
भूयास्तां भुजगाधिपाविव मुदे बाहू सदा मांसलौ

कामाक्ष्युज्ज्वलनूत्नरत्नखचितस्वर्णाङ्गदालङ्कृतौ ।

भात्वत्कौ मम देवि सुन्दरतरौ दूरीकृतद्वेषण-

प्रोद्यद्वाबाहुबलौ जगत्त्रयनुतौ नम्रालिरक्षापरौ ॥ २० ॥
 
६६१-
 
</verse>
</page>