Proofing

2026-04-03 16:54:12 by ambuda-bot

This page has not been fully proofread.

श्रीकामाक्षीस्तुतिः
 
कामाक्ष्यद्य सुरक्षतात् कटितटी तावक्यतीवोज्ज्वल-
 
द्रत्नालङ्कृतहाट काढ्य रशना सम्बद्धघण्टारवा ।
तत्रत्येन्दुमणीन्द्रनीलगरुडप्रख्योपलज्योतिषा
 
व्याप्ता वासवकार्मुकद्युतिखनीवाभाति या सर्वदा ॥ १३ ॥
वस्तिः स्वस्तिगता तवातिरुचिरा कामाक्षि भो देवते
सन्तोषं विदधातु सन्ततमसौ पीताम्बर। वेष्टिता ।
तत्रापि स्वया श्रिया तत इतः प्रद्योतयन्ती दिश:
कान्तेन्द्रोपलकान्तिपुञ्जकणिकेवाभाति या सौष्ठवात् ॥ १४ ॥
 
यन्नाभीसरसी भवाभिधमरुक्षोणीनिविष्टोद्भव-
तृष्णार्ताखिलदेहिनामनुकलं सुज्ञानतोयं वरम् ।
दत्वा देवि सुगन्धि सद्गुणसदासेव्यं प्रणुद्य श्रमं
सन्तोषाय च वोभवीतु महिते कामाक्षि भो देवते ॥ १५ ॥
यन्मध्यं तव देवि सूक्ष्ममतुलं लावण्यमूलं नभः-
प्रख्यं दुष्टनिरीक्षणप्रसरणश्रान्त्यापनुत्त्या इव ।
जातं लोचनदूरगं तदवतात् कामाक्षि सिंहान्तर-
स्वैराटोपनिरासकारि विमलज्योतिर्मयं प्रत्यहम् ॥ १६ ॥
धृत्यै ते कुचयोर्वलित्रयमिषात् सौवर्णदामत्रयी-
बद्धं मध्यमनुत्तमं सुदृढयोर्गुर्वीर्ययोर्देवते ।
सौवर्णौ कलशाविवाद्य च पयः पूरीकृतौ सत्कृतौ
 
तौ कामाक्षि मुदं सदा वितनुतां भारं पराकृत्य नः ॥ १७ ॥
पाणी ते शरणागताभिलषितश्रेयःप्रदानोद्यतौ
 
सौभाग्यधिकशंसिशास्त्र विहरदेखङ्कितौ शौभनौ ।
स्वर्लोकद्रमपञ्चकं वितरणे तत्तत्तषां तस्य त-
 
त्पात्रालाभविशङ्कयाङ्गुलिमिषान्मन्ये विभात्यत्र हि ॥ १८ ॥
दत्तां देवि करौ तवातिमृदुल कामाक्षि संपत्करौ
सद्रत्नचितकङ्कणादिभिरलं सौवर्णकैर्भूषितौ ।
नित्यं संपदमत्र मे भवभयप्रध्वंसनैकोत्सुकौ
 
संरक्तौ च रसालपल्लवतिरस्कारं गतौ सुन्दरौ ॥ १९ ॥
 
भूयास्तां भुजगाधिपाविव मुदे बाहू सदा मांसलौ
कामाक्ष्युज्ज्वलनूत्नरत्नखचितखर्णाङ्गदालङ्कृतौ ।
भात् मम देवि सुन्दरतरौ दूरीकृतद्वेषण-
प्रोद्यद्वाहुबलौ जगत्त्रयनुतौ नम्रालिरक्षापरौ ॥ २० ॥
 
६६१-