Stotrarnava /706
This page has been fully proofread once and needs a second look.
<page>
<ignore>६६०
देवीस्तोत्रेषु
</ignore>
<verse>कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः-
कासारे वसतिं सदापि सुमनस्संदोहसंराजिते ।
सुज्ञानामृतपूरितेक्कलुपषताहीने च पद्मालये
नित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ ५ ॥
</verse>
<verse>कामाक्षी पदपद्मयुग्मनखराः सम्यक्कल लासंयुताः
नित्यं सद्गुणसंश्रिताः कुवलया मोदोद्भवाधायकाः ।
उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतः
श्रेष्ठादिन्दु निरासकारिविभवा रक्षन्तु नः सर्वदा ॥ ६॥
</verse>
<verse>कामाक्षीचरणारविन्दयुगलीगुल्फट्टयं रक्षता-
दस्मान् संततमाश्रितार्तिशमनं दोषौघविध्वंसनम् ।
तेजः पूरनिधानमङ्घ्रिवलयाद्याकल्पसङ्घट्टन-
प्रोद्यद्ध्वानमिषेण च प्रतिशृणन्नम्रा लिरक्षामिव ॥ ७ ॥
</verse>
<verse>जङ्घे द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन-
स्सन्तोषाय ममामितोर्जितयशः संपत्तये च स्वयम् ।
साम्योल्लङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुते
हे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ ८ ॥
</verse>
<verse>कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तव
प्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः ।
सम्यग्वृत्तमतीव सुन्दरमिदं संपन्नदानं सतां
लोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ९ ॥
</verse>
<verse>ऊरू ते भवतां मुद्दे मम सदा कामाक्षि भो देवते
रम्भाटोपविमर्दनैक निपुणे नीलोत्पलाभे शुभे ।
शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव-
श्रीयुक्ते च नितम्बभारभरणैका ग्रप्रयत्ने सदा ॥ १० ॥
</verse>
<verse>कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परं
श्रीमद्दर्पणदर्पहारि जघनद्वन्द्वं महत्तावकमम् ।
यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वया
लीलार्थथं प्रतिभाति सागरवनप्रावादिकार्धावृता ॥ ११ ॥
</verse>
<verse>बोभूतां यशसे ममाम्ब रुचिरौ भूलोकसञ्चारतः
श्रान्तौ स्थूलतरौ तवातिमृदुलौ स्निग्धौ नितम्बौ शुभौ ।
गाङ्गेयोन्नतसैकतस्थलकचग्राहिस्वरूपौ गुण-
श्लाघ्यो गौरवशोभिनौ सुविपुलौ कामाक्षि भो देवते ॥ १२ ॥
</verse>
</page>
<ignore>६६०
<verse>कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः-
कासारे वसतिं सदापि सुमनस्संदोहसंराजिते ।
सुज्ञानामृतपूरिते
नित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ ५ ॥
<verse>कामाक्षी
नित्यं सद्गुणसंश्रिताः कुवलया
उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतः
श्रेष्ठादिन्दु
<verse>कामाक्षीचरणारविन्दयुगलीगुल्फट्टयं रक्षता-
दस्मान् संततमाश्रितार्तिशमनं दोषौघविध्वंसनम् ।
तेजः
प्रोद्यद्ध्वानमिषेण च प्रतिशृणन्नम्रा
<verse>जङ्घे द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन-
स्सन्तोषाय ममामितोर्जितयशः
साम्योल्लङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुते
हे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ ८ ॥
<verse>कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तव
प्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः ।
सम्यग्वृत्तमतीव सुन्दरमिदं संपन्नदानं सतां
लोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ९ ॥
<verse>ऊरू ते भवतां मु
रम्भाटोपविमर्दनैक
शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव-
श्रीयुक्ते च नितम्बभारभरणैका
<verse>कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परं
श्रीमद्दर्पणदर्पहारि जघनद्वन्द्वं महत्तावक
यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वया
लीलार्