Proofing

2026-05-10 01:36:22 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६६०
 
देवीस्तोत्रेषु
 
</ignore>
<verse>
कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः-

कासारे वसतिं सदापि सुमनस्संदोहसंराजिते ।

सुज्ञानामृतपूरिते क्लुताहीने च पद्मालये
 

नित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ ५ ॥
</verse>
<verse>
कामाक्षी पदपद्मयुग्मनखराः सम्यक्कलासंयुताः
 

नित्यं सद्गुणसंश्रिताः कुवलया मोदोद्भवाधायकाः ।

उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतः

श्रेष्ठादिन्दु निरासकारिविभवा रक्षन्तु नः सर्वदा ॥ ६॥
</verse>
<verse>
कामाक्षीचरणारविन्दयुगलीगुल्फट्टयं रक्षता-
 

दस्मान् संततमाश्रितार्तिशमनं दोषौघविध्वंसनम् ।

तेजः पूरनिधानमङ्घ्रिवलयाद्याकल्पसङ्घट्टन-
 

प्रोद्यद्ध्वानमिषेण च प्रतिशृणन्नम्रा लिरक्षामिव ॥ ७ ॥
</verse>
<verse>
ङ्घे द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन-

स्
सन्तोषाय ममामितोर्जितयशः संपत्तये च स्वयम् ।

साम्योल्लङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुते
 

हे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ ८ ॥
</verse>
<verse>
कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तव
 

प्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः ।

सम्यग्वृत्तमतीव सुन्दरमिदं संपन्नदानं सतां

लोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ९ ॥
</verse>
<verse>
ऊरू ते भवतां मुद्दे मम सदा कामाक्षि भो देवते

रम्भाटोपविमर्दनैक निपुणे नीलोत्पलाभे शुभे ।

शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव-

श्रीयुक्ते च नितम्बभारभरणैका ग्रप्रयत्ने सदा ॥ १० ॥
</verse>
<verse>
कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परं

श्रीमद्दर्पणदर्पहारि जघनद्वन्द्वं महत्तावकम्

यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वया

लीलार्थं प्रतिभाति सागरवनप्रावादिकार्धावृता ॥ ११ ॥
 
</verse>
<verse>
बोभूतां यशसे ममाम्ब रुचिरौ भूलोकसञ्चारतः
 

श्रान्तौ स्थूलतरौ तवातिमृदुलौ स्निग्धौ नितम्बौ शुभौ ।

गाङ्गेयोन्नतसैकतस्थलकचग्राहिस्वरूपौ गुण-
 

श्लाघ्यो गौरवशोभिनौ सुविपुलौ कामाक्षि भो देवते ॥ १२ ॥
 
</verse>
</page>