Stotrarnava /706
This page has not been fully proofread.
६६०
देवीस्तोत्रेषु
कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः-
कासारे वसतिं सदापि सुमनस्संदोहसंराजिते ।
सुज्ञानामृतपूरिते क्लुपताहीने च पद्मालये
नित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ ५ ॥
कामाक्षी पदपद्मयुग्मनखराः सम्यक्कल संयुताः
नित्यं सद्गुणसंश्रिताः कुवलया मोदोद्भवाधायकाः ।
उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतः
श्रेष्ठादिन्दु निरासकारिविभवा रक्षन्तु नः सर्वदा ॥ ६॥
कामाक्षीचरणारविन्दयुगलीगुल्फट्टयं रक्षता-
दस्मान् संततमाश्रितार्तिशमनं दोषौघविध्वंसनम् ।
तेजः पूरनिधानमङ्घ्रिवलयाद्याकल्पसङ्घट्टन-
प्रोद्यध्वानमिषेण च प्रतिशृणन्नम्रा लिरक्षामिव ॥ ७ ॥
ज द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन-
सन्तोषाय ममामितोर्जितयशः संपत्तये च स्वयम् ।
साम्योल्लङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुते
हे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ ८ ॥
कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तव
प्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः ।
सम्यग्वृत्तमतीव सुन्दरमिदं संपन्नदानं सतां
लोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ९ ॥
ऊरू ते भवतां मुद्दे मम सदा कामाक्षि भो देवते
रम्भाटोपविमर्दनैक निपुणे नीलोत्पलाभे शुभे ।
शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव-
श्रीयुक्ते च नितम्बभारभरका प्रयत्ने सदा ॥ १० ॥
कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परं
श्रीमद्दर्पणदर्पहारि जघनद्वन्द्वं महत्तावकम ।
यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वया
लीलार्थ प्रतिभाति सागरवनप्रावादिकार्धावृता ॥ ११ ॥
बोभूतां यशसे ममाम्ब रुचिरौ भूलोकसञ्चारतः
श्रान्तौ स्थूलतरौ तवातिमृदुलौ स्निग्धौ नितम्बौ शुभौ ।
गाङ्गेयोन्नतसैकतस्थलकचग्राहिस्वरूपौ गुण-
श्लाघ्यो गौरवशोभिनौ सुविपुलौ कामाक्षि भो देवते ॥ १२ ॥