Proofing

2026-04-03 16:54:11 by ambuda-bot

This page has not been fully proofread.

श्रीकामाक्षीस्तुतिः
 
ह्रींकारप्रणवात्मिकां प्रणमतां श्रीविद्य[ पूर्व ] विद्यामयीं
 
ऐं श्रीं सौं रुचिमन्त्रमूर्ति निवहाकारामशेषात्मिकाम् ।
ब्रह्मानन्दरसानुभूत[ति] महितां ब्रह्मप्रियवादिनीं
 
कामाक्षीं कलयामि कल्पलतिकां कालीपुरीदेवताम् ॥ ७ ॥
सिद्धानन्दजनस्य चिन्मय सुखाकारां महायोगिभिः
 
६५९
 
मायाविश्वविमोहिनीं मधुमतीं ध्यायेच्छुभां [ ध्येयां शुभां ] ब्राह्मणीम् ।
ध्येयां किन्नरसिद्धचारणवधूद्गेयां सदा योगिभिः
 
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ८ ॥
कामारिकामां कमलासनस्थां
 
काम्यप्रदां कङ्कणचूडहस्ताम् ।
 
काचीनिवासां कनकप्रभासां
 
कामाक्षि देवी कलयामि चित्ते ॥ ९ ॥
 
॥ इति श्रीकामाक्षीस्तोत्रं सम्पूर्णम् ॥
 
१०. ॥ अथ श्रीकामाक्षीस्तुतिः ॥
वन्दे कामाक्ष्यहं त्वां वरतनुलतिकां विश्वरक्षैकदीक्षां
विष्वग्विश्वम्भरायामुपगतवसतिं विश्रुतामिष्टदात्रीम् ।
वामोलमाश्रितार्तिप्रशमननिपुणां वीर्यशौर्याद्युपेतां
वन्दारुस्वर्तुमिन्द्राद्युपगतविटपां विश्वलोकालवालाम् ॥ १॥
 
चापल्यादियमभ्रगा तटिदो किश्चेत्सदा सर्वगा
 
ह्यज्ञानाख्यमुग्रमन्धतमसं निर्णुद्य निस्तन्द्रिता ।
 
सर्वार्थावलिदर्शिका च जलदज्योतिर्न चैषा तथा
 
यामेवं विवदन्ति वीक्ष्य विबुधाः कामाक्षि नः पाहि सा ॥ २ ॥
दोषोत्सृष्टवपुः कलां च सकलां बिभ्रत्यलं संततं
दूरत्यक्तकलङ्किका जलजनुर्गन्धस्य दूरस्थिता ।
ज्योत्स्नातो परागबन्ध रहिता नित्यं तमोना स्थिरा
 
कामाक्षीति सुचन्द्रिकातिशयता सा पातु नः सर्वदा ॥ १३ ॥
 
दिश्याद्देवि सदा त्वदङ्घ्रिकमलद्वन्द्वं श्रितालिष्वलं
वृत्तिं तत्स्वयमादधच्च विमुखं दोष कराडम्बरे ।
सूर्यादर्शहसन्मुखं श्रुतिपथस्यात्यन्तभूषायितं
 
नेत्रानन्दविधायि पङ्कमधरीकृत्योज्ज्वलं सधृतम् ॥ ४ ॥