Stotrarnava /704
This page has not been fully proofread.
६५८
देवीस्तोत्रेषु
मत्तेभवक्त्रजननीं मृडदेहयुक्तां
शैलाग्रमध्यनिलयां वरसुन्दराङ्गीम् ।
कोटीश्वराख्यहृदि संस्थितपादपद्मां
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ५ ॥
बाले त्वत्पादयुगलं ध्यात्वा सम्प्रति निर्मितम् ।
नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥ ६ ॥
॥ इति श्रीत्रिपुरसुन्दरीपञ्चरत्नस्तवः सम्पूर्णः ॥
९. ॥ अथ श्रीकामाक्षीस्तोत्रम् ॥
काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां
काश्मीररुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।
कल्हाराञ्चितकल्पकोज्ज्वलमुखी कारुण्यकल्लोलिनीं
कामाक्षी कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ १ ॥
कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां
कन्दर्पाधिकदर्पदानविलसत्सौन्दर्यदीपाङ्कुराम् ।
कीरालापविनोदिनीं भगवतीं काम्यप्रदानत्रतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ २ ॥
गन्धर्वामरसिद्धचारणवधूद्गेयापदानाञ्चितां
गौरीं कुङ्कुमपङ्कपङ्कितकुचद्वन्द्वाभिरामां शुभाम् ।
गम्भीर स्मितविभ्रमाङ्कितमुखीं गङ्गाधरालिङ्गितां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ३ ॥
विष्णुब्रह्ममुखामरेन्द्रपरिषत्कोटीरपीठस्थलां
लाक्षारञ्जितपादपद्मयुगलां राकेन्दुबिम्बाननाम् ।
वेदान्तागमवेद्यचिन्त्यचरितां विद्वज्जनैरादृतां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ४ ॥
माकन्दद्रुममूलदेशमहिते माणिक्यसिंहासने
दिव्यां दीपितहेमकान्तिनिवहा [विलसद् ] वस्त्रावृतां तां शुभाम् ।
दिव्याकल्पित दिव्य देहभरितां दृष्टिप्रमोद वहां
कामाक्षी कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ५ ॥
आधारादिसमस्तचक्रनिलयामाद्यन्तशून्यामुमा-
माकाशादिसमस्तभूतनिवहाका रामशेषात्मिकाम् ।
योगीन्द्रैरति योगिनीशतगणैराराधितामम्बिकां
कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ६ ॥