Proofing

2026-04-03 16:54:11 by ambuda-bot

This page has not been fully proofread.

श्रीत्रिपुरसुन्दरीपञ्चरत्नस्तवः
 
वामहस्तेन जिह्वाञ्चलां वैरिणः
पाणिना दक्षिणेनायुधं मुद्गरम् ।
बिभ्रतीं पीतवर्णा [म्बरा ] लङ्कृता-
मापदुत्तारिणीमम्बिकामाश्रये ॥ ८ ॥
पुस्तकं पाशमक्षत्रजं चाङ्कुशं
दोलताभिर्दधानां त्रिनेत्रान्विताम् ।
बालिकां पुरीपुण्डरीकप्रभा -
 
मापदुत्तारिणीमम्बिकामाश्रये ॥ ९ ॥
 
ब्रह्मशौरीन्द्रमुख्यामरप्राप्तना-
 
नायुधाच्छानां स्रग्विभूषान्विताम् ।
भर्गपत्नीं सुदुर्गामभीष्टप्रदा-
 
मापदुत्तारिणीमम्बिकामाश्रये ॥ १० ॥
 
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यविरचितमम्बिकास्तोत्रं सम्पूर्णम् ॥
 
८. ॥ अथ श्रीत्रिपुरसुन्दरीपश्चरत्नस्तवः ॥
 
नीलालकां शशिमुखीं नवपल्लवोष्ठीं
 
चाम्पेय पुष्पसुषमोज्ज्वलदिव्यनासाम् ।
पद्मेक्षणां मुकुरसुन्दरगण्डभागां
 
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ १ ॥
 
श्री कुन्दकुडमलशिखोज्ज्वलदन्तबृन्द-
मन्दस्मितद्युतितिरोहितचारुवाणीम् ।
नानामणिस्थगितहारसुचारुकण्ठीं
 
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ २ ॥
 
पीनस्तनीं घनभुजां विपुलाब्जहस्तां
भृङ्गावलीजित सुशोभित रोमराजिम् ।
मत्तेभकुम्भकुचभारसुनत्रमध्यां
 
त्वां साम्प्रतं त्रिपुरसुन्दरि देवि वन्दे ॥ ३ ॥
 
रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा-
 
मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् ।
 
हेमाम्बरां घनघृताश्चितखडगवल्लीं
 
42
 
त्वां साम्प्रतं त्रिपुसुन्दरि देवि वन्दे ॥ ४ ॥
 
६५७