Proofing

2026-04-03 16:54:11 by ambuda-bot

This page has not been fully proofread.

७. ॥ अथ श्री अम्बिकास्तवः ॥
 
श्रीगिरीशप्रियां चिन्तितार्थप्रदां
रत्नानि राजबिम्बाननाम् ।
सैरिभेन्द्रादिमत्तेभपञ्चानना-
 
मापदुत्तारिणीमम्बिकामाश्रये ॥ १ ॥
 
वारुणीसेवितां कीरवाणीस्तुतां
शत्रसंहारिणीं श्रेयसः कारिणीम् ।
वारुणीपारणां चारुसञ्चारिणी-
मापदुत्तारिणीमम्बिकामाश्रये ॥ २ ॥
 
सत्रयीकोणमध्यस्थबिन्दूपरि-
प्रस्फुरद्रत्नसिंहासनाधिष्ठिताम् ।
सर्वसौभाग्य सन्धायिनीं मायिनी -
मापदुत्तारिणीमम्बिकामाश्रये ॥ ३ ॥
मातृकाभिः परीवारितां किञ्चिदु-
मीलतां धीवरप्रेक्षणानन्दिनीम् ।
मत्तमातङ्गकुम्भोरुवक्षोरुहा-
 
मापदुत्तारिणीमम्बिकामाश्रये ॥ ४ ॥
 
यक्षगन्धर्वसिद्धाङ्गना मौलिंग-
र्भस्थसूनातिसंवासिताङ्घ्रिद्वयम् ।
मातृका रूपिणीं मातृयन्त्रात्मिका-
 
मापदुत्तारिणीमम्बिकामाश्रये ॥ ५ ॥
 
वीरमाहेश्वरीं चारुधर्मक्रियां
 
पारगात्रान्तरागारसंवासिनीम् ।
 
किङ्कराशेषसंपत्करीं शाङ्करी-
 
मापदुत्तारिणीमम्बिकामाश्रये ॥ ६ ॥
 
ऐन्द्रवज्ञादिकान्तिच्छटारञ्जिनीं
 
शेखरीभूतशुक्लेन्दुरेखाभराम् ।
 
मन्जुमञ्जीरशिञ्जत्पदाम्भोरुहा-
 
मापदुत्तारिणीमम्बिकामाश्रये ॥ ७ ॥