Stotrarnava /701
This page has been fully proofread once and needs a second look.
<page>
<title>६. ॥ अथ श्रीमीनाक्षीद्वादशस्तोत्रम् ॥
</title>
<verse>या देवी जगतां कर्त्री शङ्करस्यापि शङ्करी ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ १ ॥
</verse>
<verse>सकृदाराध्य यां सर्वमभीष्टं लभते नरः ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ २ ॥
</verse>
<verse>यस्याः प्रसादलेशेन भोगमोक्षौ न दुर्लभौ ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ३ ॥
</verse>
<verse>यया शिवोऽपि युक्तः सन् पञ्चकृत्यं करोति हि ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ४ ॥
</verse>
<verse>यस्याः प्रीत्यर्थमनिशं लास्यं कुर्वन् शिवो बभौ ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ५ ॥
</verse>
<verse>लक्ष्मीसरस्वतीमुख्या यस्यास्तेजःकणोद्भवाः ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ६ ॥
</verse>
<verse>या देवी मुक्तिकामानां ब्रह्मविद्याप्रदायिनी ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ७ ॥
</verse>
<verse>यस्याः प्रणाममात्रेण वर्धन्ते सर्वसम्पदः ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ८ ॥
</verse>
<verse>या स्तुता सर्वपापघ्नी सर्वोपद्रवनाशिनी ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ९ ॥
</verse>
<verse>या ध्याता परमा शक्तिः सर्वसिद्धिकरी शिवा ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ १० ॥
</verse>
<verse>या देव्यापि विरहितः शिवोऽपि हि निरर्थकः ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ ११ ॥
</verse>
<verse>चराचरं जगत् सर्वं यस्याः पादसमुद्भवम् ।
नमस्तस्यै सुमीनाक्ष्यै देव्यै मङ्गलमूर्तये ॥ १२ ॥
</verse>
<trailer>॥ इति श्रीमीनाक्षीद्वादशस्तोत्रं सम्पूर्णम् ॥
</trailer>
</page>