Proofing

2026-04-03 16:54:10 by ambuda-bot

This page has not been fully proofread.

श्री आर्याष्टकम्
 
गौरीं मञ्जुलमीननेत्रयुगलां कोदण्डसुभ्रूलतां
 
बिम्बोष्ठीं स्मितकुन्ददन्तरुचिरां चाम्पेयनासोज्ज्वलाम् ।
अर्धेन्दु प्रतिबिम्ब फालरुचिरामादर्श गण्डस्थलां
 
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ५ ॥
 
गौरीं कुङ्कुमपङ्कलेपितलसद्वक्षोजकुम्भो ज्ज्वलां
कस्तूरीतिलकालकां मलयजां गन्धोल्लसत्कन्धराम् ।
लाक्षाकर्दमशोभिपादयुगलां सिन्दूरसीमन्तिनीं
 
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ६ ॥
गौरीं चम्पकमल्लिका सुकुसुमैः पुन्नागसौगन्धिका-
द्रोणेन्दीवरकुन्दजातिवकुलैराबद्धचूलीयुताम् ।
मन्दारारुणपद्मकेतकदल श्रेणीलसद्वेणिकां
 
मीनाक्षीं मधुरेश्वरी शुकधरां श्रीपाण्ड्यबालां भजे ॥ ७ ॥
॥ इति श्रीमीनाक्षीस्तोत्रं सम्पूर्णम् ॥
 
४.
 
॥ अथ श्री आर्याष्टकम् ॥
 
करस्थकदलीचूतपनसेष्टकमोदकम् ।
 
बालसूर्यप्रतीकाशं वन्दे बालगणाधिपम् ॥ १ ॥
आर्या कात्यायनी देवीमभीष्टफलदायिनीम् ।
देहि विद्यां महादेवि नमामि त्वां महेश्वरीम् ॥ २ ॥
महादेवप्रियां काली महायोगेश्वरेश्वरीम् ।
 
महालक्ष्मीं शिवां गौरीं देहि विद्यां महेश्वरि ॥ ३ ॥
 
उमां हैमवतीं शुभ्र कोमलाङ्गीं शुभप्रियाम् ।
नमामि शुभ्रवक्त्रां त्वां देहि विद्यां शिवप्रिये ॥ ४ ॥
पद्महस्तां सहस्राक्षीं सहस्रानललोचनाम् ।
नौमि दुर्गा भगवतीं देहि विद्यां सुरेश्वरि ॥ ५ ॥
पद्ममन्दिरमध्यस्थां योगिबृन्दैर्निषेविताम् ।
नौमि विश्वमयीं वाणीं देहि विद्यां सुलोचने ॥ ६ ॥
लक्ष्मीं क्षमां शिवां धात्रीं कल्याणगुणवर्धनीम् ।
वन्दे त्वां प्रणतार्तिघ्नीं देहि विद्यां सुरेश्वरि ॥ ७ ॥
विधिरूपां हंसवाहां ब्रह्मध्यानपरायणाम् ।
वरदाभयकरां विद्यां देहि [त्वं ] परमेश्वरि ॥ ८ ॥
 
६५३