Proofing

2026-04-03 16:54:10 by ambuda-bot

This page has not been fully proofread.

६५२
 
देवीस्तोत्रेषु
 
लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणीं
सेवायातसमस्त देववनितां सीमन्तभूपान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
धन्य(स्सो)[स्तो]मविभावनीयचरितां धाराधरश्यामलां
मुन्याराधनमेधिनीं शमवतां मुक्तिप्रदानत्रताम् ।
कन्यापूजन सुप्रसन्न हृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थिता-
मष्टोत्कृष्ट सुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।
कामाक्षी करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालङ्कृताम् ।
गङ्गा गौतमगर्गसन्नुतपदां गां गौतमीं गोमती
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥
॥ इति श्रीमातृस्तवः सम्पूर्णः ॥
 
३. ॥ अथ श्री मीनाक्षीस्तोत्रम् ॥
 
गौरीं काञ्चनपद्मिनीतटगृहां श्रीसुन्दरेशप्रियां
नीपारण्य सुवर्णकन्दुक परिक्रीडाविलोलामिमाम् ।
श्रीमत्पाण्ड्यकुलाचलाग्रविलसद्रत्नप्रदीपायितां
 
मीनाक्षीं मधुरेश्वरी शुक्रधरां श्रीपाण्ड्यबालां भजे ॥ १॥
गौरीं वेदकदम्बकाननशुकों शास्त्राट वीके किनीं
 
वेदान्ताखिलधर्म हेमनलिनीहंसीं शिवां शाम्भवीम् ।
ओङ्काराम्बुज नीलमत्तमधुपां मन्त्रान्रशाखाम्बिकां
 
मीनाक्षी मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ २ ॥
गौरीं नूपुरशोभिताङ्घ्रिकमलां तूणोलसज्जविकां
रत्नादर्शसमानजानुयुगलां रम्भानिभोरुद्वयाम् ।
मनोज्ञपीनजघनामवर्तनाभीहृदां
 
मीनाक्षी मधुरेश्वरी शुकधरां श्रीपाण्ड्यबालां भजे ॥ ३ ॥
गौरीं व्योमसमानमध्यमयुतामुत्तङ्गवक्षोरुहां
 
वीणामञ्जुलशारिकान्वितकरां शङ्खाभकण्ठोज्ज्वलम् ।
राकाचन्द्रसमान चारुवदनां रोलम्वनीलालकां
 
मीनाक्षीं मधुरेश्वरीं शुकधरां श्रीपाण्ड्यबालां भजे ॥ ४ ॥