Proofing

2026-04-03 16:54:10 by ambuda-bot

This page has not been fully proofread.

श्रीमातृस्तवः
 
तत्त्वे तत्त्वमयी परात्परमयि ज्योतिर्मयी चिन्मयि
नादे नादमयी सदाशिवमयी तत्त्वार्थसारामयि[त्मिके] ।
शब्दब्रह्ममयी चराचरमयी वेदान्तरूपात्मिके
 
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ८ ॥
कदम्बवृक्षमूले त्वं वासिनि शुभधारिणि ।
धराधरसुते देवि मङ्गलं कुरु शङ्करि ॥ ९ ॥
ध्यात्वा त्वां देवि दशकं ये पठन्ति भृगोर्दिने ।
तेषां च धनमायुष्यमारोग्यं पुत्रसंपदः ॥ १० ॥
 
॥ इति श्री अखिलाण्डेश्वरीस्तोत्रं सम्पूर्णम् ॥
 
२. ॥ अथ श्रीमातृस्तवः ॥
चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणि
चारुस्मेरमुखीं चराचरजगत्संरक्षणीं तत्पदाम् ।
चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
 
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
कस्तूरीतिलका चितेन्दु विलसत्प्रोद्भासि फालस्थलीं
कर्पूरद्रवमिश्रचूर्णखदिरां मेदोलसद्वीपिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्न तानन्दिनीं
 
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥
 
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
 
राजीवप्रभवादिदेवमकुटीरराजत्पदाम्भोरुहाम् ।
 
राजीवायतमन्दमण्डितरुचां राजाधिराजेश्वरीं
 
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥
 
षट्ताराङ्गणदीपिकां शिवसतीं षरिवर्गापहां
 
षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षडभावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
 
श्रीनाथात् कृतपालितत्रिभुवनां श्रीचक्रसंचारिणीं
ज्ञानासक्तमनोज यौवनलसद्गन्धर्वकन्याकृता [ति ]म् ।
दीनानामतिवेगभाग्यजननीं दिव्याम्बरालङ्कृतां
 
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
 
६५१