Stotrarnava /696
This page has not been fully proofread.
॥ अथ श्रीदेवीस्तोत्राणि ॥
१. ॥ अथ अखिलाण्डेश्वरीस्तोत्रम् ॥
ओङ्कारार्णवमध्यगे त्रिपथगे ओङ्कारवीजात्मिके
ओङ्कारेण सुखप्रदे शुभकरे ओङ्कारबिन्दुप्रिये ।
ओङ्कारे जगदम्बिके शशिकले ओङ्कारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ १ ॥
ह्रीङ्कारार्णववर्णमध्यनिलये होङ्कारवर्णात्मके
ह्रीङ्काराब्धिसुचारुचान्द्रकधरे हीङ्कारनादप्रिये ।
हीङ्कारे त्रिपुरेश्वरी सुचरिते होङ्कारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ २ ॥
श्रीचक्राङ्कितभूषणोज्ज्वलमुखे श्रीराजराजेश्वरि
श्रीकण्ठार्धशरीरभागनिलये श्री जम्बुनाथप्रिये ।
श्रीकान्तस्य सहोदरे सुमनसे श्रीबिन्दुपीठप्रिये
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ३ ॥
कस्तूरी तिलकोज्ज्वले कलिहरे क्कीङ्कारबीजात्मिके
कल्याणी जगदीश्वरी भगवती कादम्बवासप्रिये ।
कामाक्षी सकलेश्वरी शुभकरे कीङ्कारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ४ ॥
नादे नारदतुम्बुरादिविनुते नारायणी मङ्गले
नानालङ्कृतहारनूपुरधरे नासामणी भासुरे ।
नानाभक्तसुपूज्यपादकमले नागारिमध्यस्थले
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ५ ॥
श्यामाङ्गी शरदिन्दुकोटिवदने सिद्धान्तमार्गप्रिये
शान्ते शारदविग्रहे शुभकरे शास्त्रादिषड्दर्शने ।
शर्वाणी परमात्मिके परशिवे प्रत्यक्षसिद्धिप्रदे
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ६ ॥
माङ्गल्ये मधुरप्रिये मधुमती माङ्गल्यसूत्रोज्ज्वले
माहात्म्यश्रवणे सुते सुतमयी माहेश्वरी चिन्मयि ।
मान्धा(ता) [तृ]प्रमुखादिपूजितपदे मन्त्रा ( ६ ) [ ] सिद्धिप्रदे
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ७ ॥