Stotrarnava /694
This page has not been fully proofread.
૬૪૮
श्री सुब्रह्मण्यस्तोत्रेषु
श्रीमत्पुष्यरथोत्सवेऽन्नमधुदुग्धाद्यैः पदार्थोत्तमैः
नानादेशसमागतैरगणितैर्यः कावडीसंभृतैः ।
भक्तौधैरभिषेचितो बहुवरांस्तेभ्यो ददात्यादरात्
श्री दण्डायुधपाणिरात्तकरुणः पायादुपायत्स माम् ॥ २ ॥
नानादिग्भ्य उपागता निजमहावेशान्विताः सुन्दरीः
तासामेत्य निशासु यः सुमशरानन्दानुभूति च्छलात् ।
गोपीनां यदुनाथवन्निजपरानन्दं तनोति स्फुटं
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ३ ॥
दुष्टानामिह भूतभाविभवतां दुर्मार्गसञ्चारिणां
कष्टाहङ्कृतिजन्यकिल्बिषवशाच्छिष्टप्रविध्वंसिनाम् ।
शिक्षार्थं निजपाणिनोद्वहति यो दण्डाभिधानायुधं
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ४ ॥
पूर्व तारकसंज्ञकं दितिसुतं यः शूरपद्मासुरं
सिंहास्यं च निहत्य वासवमुखान् देवान् जुगोपा खिलान् ।
श्रीवल्ल्या सहितश्च निस्तुलयशा: श्रीदेवसेन्या युतः
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ५ ॥
यस्याङ्गस्थित रोमकूपनिकरे ब्रह्माण्डकोटिच्छटा :
सौधाग्रस्थ गवाक्षरन्त्रविचरत्पीलूपमा एव ताः ।
लक्ष्यन्ते यमिदृग्भिरात्मनि तथाभूतस्वविश्वाकृतिः
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ६ ॥
1. [ साङ्केति ] कै: कावडीशब्दार्थादिकमुच्यते-
अंसाधिरोप्यो यो दण्ड: [कुम्भयोरुभ] योरपि ।
सभारदण्डं वहति कावडीत्युच्यते हि सः ॥ १ ॥
सर्वलोकप्रसिद्ध[सा कावडी द्विविधा मता ।
तयोरिहैका गाङ्गी स्यादन्या स्कान्दी प्रकीर्तिता ॥ २ ॥
[केवलं]कुंभयुगलमंसदण्डस्य विभ्रतः ।
देवतानामसान्निध्यात् कावडीत्वं न सिध्यति ॥ ३ ॥
कामादिदोषहन्तृत्वाद्वस्तुतत्त्वप्रकाशनात्
1
डीयमानगतेर्हेतोः कावडीत्य [भिधीयते ॥ ४ ॥
गन्धपुष्पाक्षतैर्धूपदीपाद्यैरुपचारकैः ।
कावड्यौ ते[जनैः स]म्यक् पूजनीये विशेषतः ॥ ५ ॥
गाङ्गी सा कावडी रामनाथलिङ्गाभिषेचिनी ।
स्कान्दी तु [कावडी] दण्डायुधपाण्यभिषेचिनी ॥ ६ ॥