Proofing

2026-04-03 16:54:08 by ambuda-bot

This page has not been fully proofread.

श्रीदण्डायुधपाण्यष्टकम्
 
भास्वत्सुधारोचिकिरीटभूषा
कीर्त्या समं शुभ्र सुगात्रशोभा ।
सरस्वती सर्वजनाभिवन्द्या
 
श्रियं कुमाराय शुभं करोतु ॥ ६ ॥
आनन्दयन्निन्दुकलावतंसो
मुखोत्पलं पर्वतराजपुत्र्याः ।
स्पृशन् सलीलं कुचकुम्भयुग्मं
श्रियं कुमाराय शुभं करोतु ॥ ७ ॥
वृषस्थितः शूलधरः पिनाकी
गिरीन्द्रजालङ्कृतवामभागः ।
 
समस्त कल्याणकरः श्रितानां
 
श्रियं कुमाराय शुभं करोतु ॥ ८ ॥
लोकानशेषानवगाहमाना
 
प्राज्यैः पयोभिः परिवर्धमाना ।
भागीरथी भासुरवीचिमाला
 
श्रियं कुमाराय शुभं करोतु ॥ ९ ॥
श्रद्धां च मेधां च यशश्च विद्यां
प्रज्ञां च बुद्धिं बलसम्पदौ च ।
आयुष्यमारोग्यमतीव तेज:
 
सदा कुमाराय शुभं करोतु ॥ १० ॥
॥ इति श्रीकुमारमङ्गलस्तोत्रं सम्पूर्णम् ॥
 
६. ॥ अथ श्रीदण्डायुधपाण्यष्टकम् ॥
यः पूर्वं शिवशक्तिनामकगिरिद्वन्द्वे हिडिम्बा सुरे-
णानीते फलिनीस्थलान्तरगते कौमारवेषोज्ज्वलः ।
आविर्भूय घटोद्भवाय मुनये भूयो वरान् प्रादिशत्
 
श्रीदण्डायुधपाणिररात्तकरुणः पायादपायात्स माम् ॥ १ ॥
 
६४७
 
1. अत्रत्यफलिनीशब्दस्य द्राविडभाषया "LIDणी" इत्यर्थोऽवगन्तव्यः ।
तत्र दण्डायुधपाण्यधिष्ठितस्य गिरेः शिवगिरिरिति नाम व्यवहारप्रसिद्धिः
तत्प्राची - दिग्भागस्थितस्य तु शक्तिगिरिरिति नाम
 
सत्पुरुषसाङ्केतिकवचनैरवगम्यते । स्पष्टमन्यत् सर्वमपि ॥
 
व्यवहारप्रसिद्धिश्च