Stotrarnava /692
This page has been fully proofread once and needs a second look.
<page>
<ignore>६४६ श्री सुब्रह्मण्यस्तोत्रेषु</ignore>
<verse>जना ये पठन्तीह भक्तिप्रयुक्ताः
प्रमोदेन सायं प्रभाते विशेषात् ।
स्वजन्मर्क्षयोगे यदा <delete>तेऽप्युदन्ता</delete><add>[ते वदन्तो]</add>
मनोवाञ्छितं सर्वकामांल्लभन्ते ॥ २४ ॥</verse>
<trailer text="4_END">॥ इति श्रीसुब्रह्मण्यभुजङ्गस्तोत्रं सम्पूर्णम् ॥</trailer>
<title text="5_START">५. ॥ अथ श्रीकुमारमङ्गलस्तोत्रम् ॥</title>
<verse>यज्ञोपवीतीकृतभोगिराजो
गणाधिराजो गजराजवक्त्रः ।
सुराधिराजार्चितपादपद्मः
सदा कुमाराय शुभं करोतु ॥ १ ॥</verse>
<verse>विधातृपद्माक्षमहोक्षवाहाः
सरस्वतीश्रीगिरिजासमेताः ।
आयुः श्रियं भूमिमनन्तरूपं
भद्रं कुमाराय शुभं दिशन्तु ॥ २ ॥</verse>
<verse>मासाश्च पक्षाच <add>[दिनानि ताराः]</add>
राशिश्च योगाः करणानि सम्यक् ।
ग्रहाश्च सर्वेऽदितिजास्समस्थाः
श्रियं कुमाराय शुभं दिशन्तु ॥ ३ ॥</verse>
<verse>ऋतुर्वसन्तः सुरभिः सुधा च
वायुस्तथा दक्षिणनामधेयः ।
पुष्पाणि शश्वत्सुरभीणि कामः
श्रियं कुमाराय शुभं करोतु ॥ ४ ॥</verse>
<verse>भानुस्त्रिलोकीतिलकोऽमलात्मा
कस्तूरिकालङ्कृतवामभागः ।
पम्पासरश्चैव स सागरश्च
श्रियं कुमाराय शुभं करोतु ॥ ५ ॥</verse>
</page>