Proofing

2026-04-07 03:45:09 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
६४६
 
श्री सुब्रह्मण्यस्तोत्रेषु
 
</ignore>
<verse>
जना ये पठन्तीह भक्तिप्रयुक्ताः

प्रमोदेन सायं प्रभाते विशेषात् ।

स्वजन्मर्क्षयोगे यदा <delete>तेऽप्युदन्ता </delete><add>[ते वदन्तो ]
</add>
मनोवाञ्छितं सर्वकामांल्लभन्ते ॥ २४ ॥
 
</verse>
<trailer>
॥ इति श्रीसुब्रह्मण्यभुजङ्गस्तोत्रं सम्पूर्णम् ॥
 
</trailer>
<title>
५. ॥ अथ श्री कुमार मङ्गलस्तोत्रम् ॥
 
</title>
<verse>
यज्ञोपवीतीकृतभोगिराजो
 

गणाधिराजो गजराजवक्त्रः ।

सुराधिराजार्चितपादपद्मः
 

सदा कुमाराय शुभं करोतु ॥ १ ॥
 
</verse>
<verse>
विधातृपद्माक्षमहोक्षवाहाः

सरस्वतीश्रीगिरिजासमेताः ।
 

आयुः श्रियं भूमिमनन्तरूपं
 

भद्रं कुमाराय शुभं दिशन्तु ॥ २ ॥
 
</verse>
<verse>
मासाश्च पक्षाच <add>[दिनानि तारा : राः]
</add>
राशिश्च योगाः करणानि सम्यक् ।

ग्रहाश्च सर्वेऽदितिजास्समस्था:
 
थाः
श्रियं कुमाराय शुभं दिशन्तु ॥ ३ ॥
 
</verse>
<verse>
ऋतुर्वसन्तः सुरभिः सुधा च

वायुस्तथा दक्षिणनामधेयः ।

पुष्पाणि शश्वत्सुरभीणि काम:
 
मः
श्रियं कुमाराय शुभं करोतु ॥ ४ ॥
 
</verse>
<verse>
भानुस्त्रिलोकी तिलकोऽमलात्मा

कस्तूरिकालङ्कृतवामभागः ।
 

पम्पासरश्चैव स सागरश्च
 

श्रियं कुमाराय शुभं करोतु ॥ ५ ॥
 
</verse>
</page>