Proofing

2026-04-03 16:54:08 by ambuda-bot

This page has not been fully proofread.

६४६
 
श्री सुब्रह्मण्यस्तोत्रेषु
 
जना ये पठन्तीह भक्तिप्रयुक्ताः
प्रमोदेन सायं प्रभाते विशेषात् ।
स्वजन्मयोगे यदा तेऽप्युदन्ता [ते वदन्तो ]
मनोवाञ्छितं सर्वकामलभन्ते ॥ २४ ॥
 
॥ इति श्रीसुब्रह्मण्यभुजङ्गस्तोत्रं सम्पूर्णम् ॥
 
५. ॥ अथ श्री कुमार मङ्गलस्तोत्रम् ॥
 
यज्ञोपवीतीकृतभोगिराजो
 
गणाधिराजो गजराजवक्त्रः ।
सुराधिराजार्चितपादपद्मः
 
सदा कुमाराय शुभं करोतु ॥ १ ॥
 
विधातृपद्माक्षमहोक्षवाहाः
सरस्वतीश्रीगिरिजासमेताः ।
 
आयुः श्रियं भूमिमनन्तरूपं
 
भद्रं कुमाराय शुभं दिशन्तु ॥ २ ॥
 
मासाश्च पक्षाच [दिनानि तारा : ]
राशिच योगाः करणानि सम्यक् ।
ग्रहाश्च सर्वेऽदितिजास्समस्था:
 
श्रियं कुमाराय शुभं दिशन्तु ॥ ३ ॥
 
ऋतुर्वसन्तः सुरभिः सुधा च
वायुस्तथा दक्षिणनामधेयः ।
पुष्पाणि शश्वत्सुरभीणि काम:
 
श्रियं कुमाराय शुभं करोतु ॥ ४ ॥
 
भानुस्त्रिलोकी तिलकोऽमलात्मा
कस्तूरिकालङ्कृतवामभागः ।
 
पम्पासरचैव स सागरश्च
 
श्रियं कुमाराय शुभं करोतु ॥ ५ ॥