Stotrarnava /691
This page has not been fully proofread.
श्रीसुब्रह्मण्यभुजङ्गस्तोत्रम्
प्रतापस्य [पाढ्य] बाहो नमद्वीरबाहो
प्रभो कार्तिकेयेष्टकामप्रदेति ।
यदा ये पठन्तो भवन्तं तदा त्वं
प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ १६ ॥
अपारेऽतिदारिद्र्यवाराशिमध्ये
भ्रमन्तं जनुग्रहपूर्ण नितान्तम् ।
महासेन मामुद्धर त्वं दयालो
कटाक्षावलोकेन किञ्चित्प्रसीद ॥ १७ ॥
स्थिरां देहि भक्तिं भवत्पादपद्मे
श्रियं निश्चलां देहि मह्यं कुमार ।
गुहाचन्द्रतारं सवंशाभिवृद्धिं
कुरु त्वं प्रभो मां मनः कल्पसाल ॥ १८ ॥
नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते नमस्ते लसद्वज्रपाणे ।
नमस्ते नमस्ते कटिन्यस्तपाणे
नमस्ते नमस्ते वराभीष्टपणे ॥ १९ ॥
नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते सुराणां महासौख्यदायिन् ।
नमस्ते सदा कुक्कुटेशध्वज त्वं
समस्तापराधं विभो मे क्षमस्व ॥ २० ॥
कुमारात्परं कर्मयोगं न जाने
कुमारात्परं कर्मशीलं न जाने ।
यथैको मुनीनां हृदब्जाधिवासः
शिवाङ्कं समारुह्य सत्पीठकल्पम् ॥ २१ ॥
विरिवाय मन्त्रोपदेशं चकार
प्रमोदेन सोऽयं तनोतु श्रियं मे ।
यमाहुः परं वेद [देव] शूरेषु मुख्यं
सदा यस्य शक्त्या जगद्भीतभीतम् ॥ २२ ॥
यमाराध्य देवाः स्थितिं स्वर्ग आपु-
रसदोंकाररूपं चिदानन्दमीडे ।
गुह [तव ] स्तोत्रमेतत् कृतं तारकारे
भुजङ्गप्रयातेन पद्येन कान्तम् ॥ २३ ॥
६४५
प्रतापस्य [पाढ्य] बाहो नमद्वीरबाहो
प्रभो कार्तिकेयेष्टकामप्रदेति ।
यदा ये पठन्तो भवन्तं तदा त्वं
प्रसन्नस्तु तेषां बहुश्रीं ददासि ॥ १६ ॥
अपारेऽतिदारिद्र्यवाराशिमध्ये
भ्रमन्तं जनुग्रहपूर्ण नितान्तम् ।
महासेन मामुद्धर त्वं दयालो
कटाक्षावलोकेन किञ्चित्प्रसीद ॥ १७ ॥
स्थिरां देहि भक्तिं भवत्पादपद्मे
श्रियं निश्चलां देहि मह्यं कुमार ।
गुहाचन्द्रतारं सवंशाभिवृद्धिं
कुरु त्वं प्रभो मां मनः कल्पसाल ॥ १८ ॥
नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते नमस्ते लसद्वज्रपाणे ।
नमस्ते नमस्ते कटिन्यस्तपाणे
नमस्ते नमस्ते वराभीष्टपणे ॥ १९ ॥
नमस्ते नमस्ते महाशक्तिपाणे
नमस्ते सुराणां महासौख्यदायिन् ।
नमस्ते सदा कुक्कुटेशध्वज त्वं
समस्तापराधं विभो मे क्षमस्व ॥ २० ॥
कुमारात्परं कर्मयोगं न जाने
कुमारात्परं कर्मशीलं न जाने ।
यथैको मुनीनां हृदब्जाधिवासः
शिवाङ्कं समारुह्य सत्पीठकल्पम् ॥ २१ ॥
विरिवाय मन्त्रोपदेशं चकार
प्रमोदेन सोऽयं तनोतु श्रियं मे ।
यमाहुः परं वेद [देव] शूरेषु मुख्यं
सदा यस्य शक्त्या जगद्भीतभीतम् ॥ २२ ॥
यमाराध्य देवाः स्थितिं स्वर्ग आपु-
रसदोंकाररूपं चिदानन्दमीडे ।
गुह [तव ] स्तोत्रमेतत् कृतं तारकारे
भुजङ्गप्रयातेन पद्येन कान्तम् ॥ २३ ॥
६४५