Proofing

2026-04-03 16:54:07 by ambuda-bot

This page has not been fully proofread.

६४४
 
श्री सुब्रह्मण्यस्तोत्रेषु
 
अजं सर्वलोकप्रियं लोकनाथं
गुहं शूरपद्मादिदम्भोलिदारम् ।
सुचारुं सुनासापुटं सच्चरित्रं
 
भजे कार्तिकेयं सदा बाहुलेयम् ॥ ८ ॥
 
शरारण्यसम्भूतमिन्द्रादिवन्द्यं
द्विषडबाहुसंख्यायुधश्रेणिरम्यम् ।
मरुत्सारथिं कुक्कुटेशं सु[शाङ्क ] केतुं
भजे योगिहृत्पद्ममध्याधिवासम् ॥ ९ ॥
विरिवीन्द्रवल्ली [लक्ष्मी]शदेवेशमुख्य-
प्रशस्तामर स्तोमसंस्तूयमानम् ।
 
दिश त्वं दयालो श्रियं निश्चलां मे
 
विना त्वां गतिः का प्रभो मे प्रसीद ॥ १० ॥
 
पदाम्भोज सेवासमायातवृन्दा-
 
रकश्रेणिकोटीरभास्वत्पदाब्जम् ।
 
कलत्रोल्लसत्पार्श्वयुग्मं वरेण्यं
 
भजे देवमाद्यन्तहीन प्रभावम् ॥ ११ ॥
 
भवाम्भोधिमध्ये तरङ्गोपतप्तं
 
प्रभो मां दयापूर्णदृष्ट्या समीक्ष्य ।
भवद्भक्तिनवोद्धरत्वं दयालो
 
सुगत्यन्तरं नास्ति देव प्रसीद ॥ १२ ॥
 
गले रत्नभूषं तनौ मजुवेषं
 
करे ज्ञानशक्तिं दरस्मेरमास्ये ।
कटिन्यस्तपाणि शिखिस्थं कुमारं
 
भजेऽहं गुहादन्यदैवं न मन्ये ॥ ॥ १३ ॥
 
दयाहीनचित्तं परद्रोहवृत्तिं
 
सदा पापशीलं गुरौ भक्तिहीनम् ।
 
अनन्यावलम्बाद्भवन्नेत्रकारु-
 
ण्यसारेण मां भो पवित्रीकुरु त्वम् ॥ १४ ॥
 
महासेन गाङ्गेय वल्लीसहाय
 
प्रभो तारकारे षडास्यामरेश ।
 
सदा पायसान्नप्रदातर्गुहेति
 
स्मरिष्यामि भक्त्या सदाहं विभो त्वाम् ॥ १५ ॥